________________ 54] आत्मख्यातिः शीतोष्णत्वोपलम्भादन्तरा तोयतेजसोः सत्त्वम् / न च समवायेन पाकजरूपे तेन* द्रव्यस्य प्रतिबन्ध कत्वात्कथं सति द्रव्येऽवयवे पाकजोत्पत्तिरिति वाच्यम् , तथाप्यन्त्यावयविनि तदुत्पत्तौ बाधकाभावात्। उक्तप्रतिबन्धकतायां मानाभावाच्च, केवलपरमाणुपाकेऽर्थसिद्धस्य कार्यद्रव्यावष्टम्भविरहस्य रूपविनाशोत्पादाप्रयोजकत्वात्। न च दाहप्रतिबन्धकमण्याद्यवयवेषु दाहानुत्पत्तये दाहं प्रति समवायेन मणेः प्रतिबन्धकत्वमवेक्ष्य लाघवेन समवायेन द्रव्यस्यैव। पाकजरूपादौ प्रतिबन्धकत्वं परमाणुत्वेन वा रूपजनकविजातीयामिसंयोगहेतुत्वं कल्पत इति नावयविनि पाकजसंभव इति वाच्यम्, हस्तान्तगतान्यादाविव मण्यवयवेषु परम्परासम्बन्धविशेषेण मणेः प्रतिवन्धकत्वसंभवात् , विजातीयामिसंयोगाभावादेव वा तत्र दाहानुत्पत्तेः / परमाणुत्वेन च विजातीयामिसंयोगं प्रति न हेतुता, संयोगस्य वहनावपि वृत्तेर्व्यभिचारात् , वहिभेदविशिष्टतादृशसंयोगत्वस्य च धटभेदविशिष्टसंयोगत्ववज्जन्यतानवच्छेदकत्वात् / यदि च कार्यद्रव्यसाधारणी मण्यादेविरोधिता तदा द्वयणुकनाशात्परमाणौ पाकजस्येव मण्यवयवेऽपि मण्यादिनाशात्तदापत्तिरिति / यत्तु रूपादिध्वंसात्मकदाहे मण्यादेः प्रतिबन्धकत्वे गौरवान्मण्यादियुक्ते तृणादौ वहन्याद्युत्पत्तेरिणीयत्वाच्च विजातीयवहूनावेवोत्तेजकाभावविशिष्टमण्याद्यभावो हेतुः स्वजन्यवहूनेरेव स्वस्मिन्दाहजनकत्वान्मण्यादियुक्ते न दाहः / मणितदवयवानां तु वह्निस्वरूपायोप्यत्वादेव न स इति कैश्चिदभिहितं तच्चिन्त्य, स्वजन्यवः स्वस्मिन् रूपादिध्वंसात्मकदाहहेतुत्वे परमाणुजन्यवयपसिद्धया तत्र रूपध्वंसानुपपतेः। अवयविदाहे स्वजन्यवह्नित्वेन हेतुत्वे गौरवात् / वैजात्यविशेषणेनानुद्भूतवनिव्यावृत्तौ मणिसंयुक्ततप्तायःशलाकादिसंसर्गजन्यतादृशवह्निना शरीरे दाहानापत्तेः, एतेन धारणाकर्षणहेतुविलक्षणसंयोगेन वन्युत्पत्तौ तद्धेतुत्वमप्यपास्तं, तस्माज्ज्वरादाविव वहौ मण्यादेः पृथगेव प्रतिबन्धकत्वं दाहे तु पृथगिति न किंचिदेतत् / अथ विजातीयस्यामिसंयोगस्य परमाणुरूपत्वं जन्यतावच्छेदकं विजातीयस्य परमाणुरूपत्वं नाश्यतावच्छेदकमिति मतद्वये तुल्यमेव, न्यायनयेऽवयविरूपेऽवयवरूपस्याग्मिसंयोगस्य च हेतुत्वमवयविरूपनाशेऽवयविनाशस्यामिसंयोगस्य हेतुत्वमिति गौरवम्। काणादनयेऽवयविरूपेऽवयवरूपस्यैवावयविरूपनाशेऽवयविनाशस्यामिसंयोगस्य च हेतुत्वमिति लाधवादिति चेत–न, नीलपीतादिकादाचित्कत्वनियमाय विजातीयविजातीयाग्निसंयोगजन्यतावच्छेदकं परमाणुनीलत्वादिकं परैर्वाच्यम् , मया तु नीलत्वादिव्याप्यजातिविशेषः, स च पाकजावयविनीलादिनिष्ठोऽपीत्यधिकाकल्पनात् / प्रत्युत परमाणुनीलत्वादिकं जन्यतावच्छेदकं परमहस्वनीलस्वादिकं नेत्यत्रैव विनिगमनाविरहात् / * समवायेनेत्यर्थः।