________________ आत्मख्यातिः अन्यथा' जन्यद्रव्यापेक्षया लाधवाद्र्व्यत्वमेव नाश्यकतावच्छेदकमित्यतोऽपि परमाणुनाशस्य निराबाधत्वात् / यदप्यर्थान्तरगमनलक्षणो विनाशः परमाणूनामसंभवी परमाणुपर्यन्तत्वात्सर्वविनाशानामिति केषांचिदभिधानं तदप्यसंगतम् , तथाभूतविनाशे प्रमाणाभावात् / अध्यक्षस्य कपालादिपर्यन्तघटादिविनाशोपलम्भ एव व्यापारात् , तत एव तन्मूलानुमानादेरप्यप्रवृत्तेः / परमाणुपर्यन्ते च विनाशे घटादिध्वंसे न किंचिदुपलभ्येत / न वा पाकनिक्षिप्तेन घटेन व्यभिचार उक्त प्रसंगसाधने सर्वस्य पक्षीकृतत्वात् / पाकान्यथानुपपत्त्या परमाणुपर्यन्तो विनाशः परिकल्प्यत इति चेत्न , विशिष्टसामग्रीवशाद्विशिष्टवर्णस्य घटादेव्यस्य कथंचिदविनाशेऽप्युत्पत्तिसंभवात् / वैशेषिकमते परमाणुपाकनिरूपणम् अत्र वैशेषिकमतानुयायिन उदयनाचार्याः२– सर्वदिगवच्छेदेनामिसंयोगस्य रूपपरावृत्तिनिमित्तत्वान्मूर्तयोः समानदेशताविरोधेन परमाण्वन्तरावष्टब्धे परमाणौ / तदसंभवात्तीव्रामिसंयोगात्परमाणुक्रियाविभागादिक्रमेण द्वयणुकाद्यन्तावयविपर्यन्तनाशः / पुनर्यथोक्तरीत्या व्यणुकान्तरोत्पत्तौ परम्परया घटादिपर्यन्तोत्पत्तिः / न च निबिडद्रव्ये पावकप्रवेश एव कथं येन तदधीनपरमाणुक्रियादिक्रमेण व्यणुकाद्यन्त्यावयविपर्यन्तनाशः स्यादिति शङ्कनीयम् , अवयविद्रव्याणां सान्तरत्वेन तदुपपत्तेः / कथमन्यथा मध्यस्थानामपां स्यन्दनम् ? ईदृशो हि तेजसो वेगातिशयः स्पर्शातिशयश्च यत् तजन्मकर्म कार्यद्रव्यं पूर्वव्यूहात् प्रच्यावयति तदवयवांश्च व्यूहान्तरं प्रापयति / असान्तरत्वे चावयविद्रव्याणामन्तरेऽप्रविशति पावके क्वथ्यमानाः क्षीरनीरादयो नोर्ध्व ध्मापयेरन् (1) / न च मृदुसंयोगत्वात्तथाऽतिदृढानामप्युपलादीनाममिदग्धानां स्फुटनात् , तस्माद् यथा शरीरादौ प्रत्यहमनुपलक्षणीयोऽपि कालान्तरे स्फुटीभूतो विशेषः प्रतीयते तथा घटादिपाकेऽपीति युक्तम् / एतेन पाकोत्तरं तस्यैवावयविनः प्रत्यभिज्ञानं सर्वदा दर्शनम् उपरि निहितमूर्त्तान्तरधारणसंख्यापरिमाणरेखोपरेखादिचिह्नाविपर्ययः पूर्वद्रव्याविनाशे प्रमाणमिति निरस्तं सूचीप्रभेदविदलितत्रिचतुरत्रसरेणुघटादिवदुपपत्तेरित्याहुः / मायमतेनावयविपाकनिरूपणम् नैयायिकास्तु पाकात्परमाणाविवावयविन्यपि रूपपरावृत्तौ बाधकाभावो, निबिडयोरेव मूर्तयोः मानदेशताविरोधेन परमाण्वन्तरावष्टब्धेऽपि परमाणौ पावकपवेशे सर्वदिगवच्छेदेन च तत्संयोगे पाधकाभावात् / अनन्तद्रव्यनाशोत्पादादिप्रक्रियायां मानाभावात् / उपगम्यते हि करसंयुक्तशिलादौ 1. अन्यथा 'पदेन पूर्वपर्यायत्वावच्छिन्नध्वंसे पृथग् हेतुताया: कल्पने, इत्यर्थो प्रायः / 2. किरणावल्यां [पृ. 187] अंशतः पाठभेदो वर्तन्ते /