________________ आत्मख्यातिः [55 अत एव नीलादिजन्यनीलादावपि जातिविशेषोपगमादवयविनीलत्वादेर्गुरुत्वादवयवित्वस्य, समवेतद्रव्यत्वस्येव प्रकृते समवेतपृथिवीत्वस्यापि सुवचतया, विनिगमनाविरहात्पाकाजन्यनीलत्वादेरपि नीलादिजन्यतावच्छेदकत्वे गौरवात्* / / __ अवयविरूपेऽवयविनाशनाश्यता च परिमाणादिसाधारण्येन क्लप्तैव। प्रतियोग्यधिकरणतावच्छिन्नविशेषणताविशेषसम्बन्धेन रूपनाशत्वं नाशाजन्यरूपनाशत्वं वाऽवयविपरमाणुरूपनाशसाधारण विजातीयाग्निसंयोगजन्यतावच्छेदकमिति न तत्राप्यधिककल्पनमिति / न च चित्ररूपेऽग्निसंयोगहेतुत्वकल्पने गौरखं पाकादवयवेषु नानारूपोत्पत्त्यनन्तरमेवावयविनि चित्ररूपस्वीकारात्। न चावयविनि चित्रजनकत्वाभिमतस्य पाकस्यावयवनीलपीतादिजनकत्वे नीलपीतादिजनकताच्छेदकजातिसांकर्य तत्र पाकनानात्वस्वीकारात् / न चैवं गौरवम् अवयविनि पाकजचित्रस्वीकारेऽवच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकनीलजनककाग्निसंयोगाद्यभावषट्कस्य स्वाश्रयसमवेतस्वसम्बन्धेन पाकजचित्रे वाय्वादौ तदापत्तिवारणाय रूपजनकविजातीयाग्निसंयोगस्य च हेतुत्वकल्पन एव महागौरवात् / ... न चाव्याप्यवृत्तिरूपपक्षे यदा सर्वनीलघटस्यैककपालावच्छेदेन पाकाद्रक्तस्यान्यकपालावच्छेदेन पाकात्पीतादेरुत्पत्तिस्तदा रक्तानवच्छेदकावच्छेदेन रक्तोत्पत्तिवारणाय रक्तं पीत्तोत्पादकस्य प्रतिबन्धकत्वकल्पनेऽवच्छेदकतासम्बन्धेन विजातीयरक्तं प्रति तेनाग्निसंयोगस्य हेतुत्वकल्पने वा गौरवमिति वाच्यम् , स्वावच्छेदकावच्छिन्नसमवायेन रक्तादिकं प्रति विजातीयाग्निसंयोगानां हेतुत्वेनैवोपपत्तेः / न चैवं पाकात्सर्वरक्तस्यापि रूपमवच्छिन्नवृत्तिकं स्यादिष्टापत्तेः, सामग्या एव तदव्याप्यवृत्तित्वे मानत्वात्। ___ अस्तु वा स्वानवच्छेदकानवच्छिन्नसमवायेन रक्तादिकं प्रति विजातीयाग्निसंयोगानां हेतुत्वम् / यद्वा तत्र स्थले परमाणावेव रक्ताद्युत्पादको विजातीयतेजःसंयोगः स्वीक्रियते, अव्याप्यवृत्तिरूपं वावयविनि चित्ररूपांगीकारपक्षे चित्ररूपमिव कारणगुणक्रमेणैव जायत इत्यदोषः / अपि च परेषामनन्तघटकपालादिकल्पनाप्यनल्पगौरवावहा / अपि चैवं घटत्वमपि दण्डजन्यतावच्छेदकं न स्यात् / न च खण्डघटवदुपपत्तिः, तत्र दण्डदिव्यापाराणां कपालसंयोगादीनां सत्त्वात् अत्र तेषामपि नाशात् / न च कुलालस्वर्णकारादिजन्यतावच्छेदकमृत्त्वसुवर्णत्वादिव्याप्यघटत्वनानात्वमावश्यकं, नहि स्वर्णघटादौ चक्रादिकं मृद्घटादौ च लोहवर्तुलादिकं हेतुः, अनुगतधीस्तु कथंचित्सौसादृश्यात् / घटपदं नानार्थ तद्वदिहावि घटत्वभेदे नानुपपत्तिरिति वाच्यम् , कुलालविशेष * गौरवमिति भावः /