SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञ-शतकवृत्ती स्नातकचारित्रप्रतिबन्धकत्वेन दोषोऽपि न चारित्रदोषः , तत्कारणस्य चोरित्रमोहनीयस्य क्षीणत्वात् / तेनोत्सूत्रप्रवृत्तीर्यापथिकीक्रिययोः सहानवस्थाननियमलक्षणो विरोधो मन्तव्यः। न चैवं केवलिनो जीवघातजन्यकेवलिप्रतिलेखनाभङ्गेनोत्सूत्रप्रवृत्तिप्रसङ्गः केनापि बाधितः / तस्य च बाधकमाभोगपूर्वकजीवघाते सत्यपि क्षीणमोहस्य ईर्यापथिकीक्रिया भवतीत्यादिरूपं वक्तव्यम् , तच्च नास्ति प्रत्युत (प्रवचनाभिप्रायस्यापरिज्ञानात् / नहि प्रवचने प्रतिषिद्धप्रतिषेवणमात्रेणोत्सूत्रप्रवृत्तिर्भवतीति भणितम् , किन्तु साम्प्ररायिकीक्रियाहेतुमोहनीयोदयसहकृतेनैव / सा चोपशान्तवीतरागस्य न भवति / तस्याश्च मोहनीयानुदयजन्येर्यापथिकीक्रियया बाधितत्वात् , उत्सूत्रप्रवृत्तीर्यापथिक्रिययोः सहाऽनवस्थानात् / यदागमः 'जस्स णं कोहमाणमायालोहा वुच्छिन्ना भवंति, तस्स णं इरिआवहिआ किरिआ कज्जति, तहेव जाव उस्सुत्तं रीअमाणस्स संपराइआ किरिआ कज्जति, से गं अहासुत्तमेव रीअइ'त्ति, भग० श० 7. उ०१(सू०२८९) तस्माद् उत्सूत्रप्रवृत्तिप्रतिबन्धिका तावत् ईर्यापथिकी क्रिया, यथाख्यात्तचारित्रप्रतिबन्धिका च मोहनीयोदयजन्यसाम्परायिकी क्रिया भवतीति सम्यक्पर्यालोचनायामुपशान्तवीतरागस्य नोत्सूत्रप्रवृत्तिर्नयो यथाख्यातचोरित्रहानिरिति तात्पर्यम् / न चैवं केवलिनः सम्भवति, तस्याभोगपूर्वकजीवघातजन्येन केवलिप्रतिलेखनाभङ्गेनोत्सूत्रप्रवृत्तिप्रसङ्गस्य केनाप्यबाधितत्वात् / नहि यथोपशान्तवीतरागस्य सत्यपि जीवधाते ईर्यापथिकीक्रियया उत्सूत्रप्रवृत्तिर्बाधिता, मोहनीयानुदयसहकृतानामोगस्य तथामाहात्म्यात् / तथाऽऽभोगपूर्वकजीवघाते सत्यपीर्यापथिकी क्रिया केवलिनो भवतीति(न) क्वाप्यागमे भणितं, येनोत्सूत्रप्रवृत्तिप्रतिबन्धः स्यात् / प्रत्युत) तथाभूतेऽतिप्रसङ्गः ‘सत्तहिं ठाणेहिं केवली जाणेज्जा तं० णो पाणे अइवाइत्ता भवती 'त्यादिप्रवचनविशेषसूत्रेण निश्चितोऽवसातव्यः, केवलिनः सर्वथाश्रवाभावात् / तस्मादयं भाषः- सूक्ष्मसम्परायगुणस्थानं यावत् यथाख्यातचारित्रं न भवति, साम्पसेयिकीक्रियाहेतोर्मोहनीयोदयस्य प्रतिबन्धकत्वात् / उपशान्तमोह-क्षीणमोहयोस्तु मोहनीयोदयाभावेन यथाख्यालचारित्रमधिकृत्य साम्येऽपि उपशान्तस्य मोहनीयसत्ताहेतुको द्रव्यतो जीवघातो भवत्यपि, न पुनः क्षीण-.. मोहस्याऽपि, मोहनीयस्य क्षीणत्वात् / तत्र क्षीणमोहस्यापि स्नातकचारित्रं न भवति / सम्भावनारूढजीपघातादिहेतोरनाभोगस्य प्रतिबन्धकत्वात् / परं सम्भावनारूढो हि जीवघातो गर्हणीयो न भवति। अध्यवसायरूपस्यः तस्योत्सूत्रप्रवृत्तिरूपत्वाभावेन छद्मस्थज्ञानागोचरत्वात् / यस्तु गर्दाविषयः स च द्रष्यहिंसादिः वीतरागेष्वपि उपशान्तवीतरागस्यैव कस्यचिदपि कादाचित्क एष स्यात् / तत्कारणमोहनीय-. सत्ताया उपशान्तगुणस्थानं यावदनवरतं विद्यमानत्वेऽपि घात्यजीवविषयकानाभोगलक्षणसहकारिकारणस्य એ લાજવતી ક્ષીણુમેહને પણિ અનાભોગમા ઉત્પન જે સંભાવનારૂઢ આશ્રવરછાયામ તે સ્નાતજ્યારિત્રને પ્રતિબંધક પણિ કરી દોષ, પણિ ચારિત્રદોષ નહી. ચારિત્રદોષનું કારણ જે ચારિત્રમોહનીય તેહને ક્ષીણુપણાથી, તે વતી ઉસૂત્રની પ્રવૃત્તિ અને ઈર્યાપથિકી ક્રિયાને સંધાને અણમિલવારા વિરોધ તે માના, કેવલી ને જીવઘાતથી જન્ય જે કેવલીની પ્રતિલેખના ભંગ તે કરી ઉસૂત્રપ્રવૃત્તિને પ્રસંગ, તે કર્ષિએ બાધિઓ નહીં. તેનું બાધક તે આભેગપૂર્વક ધાત છતે પણિ ક્ષીણુમેહને છર્યાયિક ક્રિયા હુઈ ઈત્યાદિ રૂપ કહેવું. તે તે નથી, સાહ सत्सहिं ठाणेहिं त्या विशेष निथित उत्सूत्रप्रवृत्तिनो प्रसotyal. Bela सप પ્રકારે આશ્રવના કહેનારપણાથી.
SR No.004306
Book TitleSarvagnashatakam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAagamoddharak Granthmala
Publication Year1968
Total Pages328
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy