________________ 71 पटले, 71-73 श्लो.] मण्डलाभिषेकमहोद्देशः हस्तश्चतुरस्रः' / अर्धभागस्तद्वत् कुण्डभित्तौ। एवं द्वौ द्वौ विभागौ पूर्वापरेऽपि। तद्वत् सव्योत्तरेऽपि। एवं चतुर्हस्तं कुण्डं प्राकारसीम्नः चक्षुरादिस्थानान्तमिति नियमः। चतुर्हस्तं चतुरस्रं तदधं वृत्तं द्विहस्तमण्डलमिति // 71 // तस्यार्थेनापि चौष्ठं द्विगुणमपि ततो वेदिका यामभाग ओष्ठार्धेनोच्छिता वै प्रभवति नियता मूनि वज्रावली च / बाह्येऽधः पद्मपत्राण्यपि कुशरचनां सर्वदिक्षु प्रकुर्यात् तस्यान्ते पश्चिमेन प्रभवति नियतं द्वारमेकं त्रिरेखम् // 72 // 10 15 तस्याःनापि चौष्ठमिति / तस्य पद्मार्धस्य तथागतस्थानस्यार्धेन तिर्यगुच्छयेणेति / प्राकारमानेन तिर्यग्विभागेन [इति] नियमः। तेनैव मानेन 'मण्डलवेदिकाध यावदिति / तदुपरि तदर्धेन निर्गमोच्छयमोष्ठं बाह्यपरिरेखामण्डलम् / एवं मण्डलवेदिकान्तं परिशुद्धं द्विगुणमपि ततो वेदिका यामभाग इति / ततो गर्भोष्ठमानाद् "द्विगुणा तिर्यग्विभागेन निःसृता वेदिका / एवं रत्नपट्टिकाहारार्ध हारभूमि - र्वकुलीपर्यन्तं वेदिका सर्वत्र कर्तव्या। ततो वकुली क्रमशीर्षभागमात्रम् अर्ध तिर्यग्विभागेन निःसृतमिति। तत्र वेदिकायां मूनि मध्यभागे वेदिका पञ्चविभागं कृत्वा मध्यभागत्रयेण वेदिकोपरि वज्रावली सार्वकर्मिककुण्डे ओष्ठमानार्थेन उच्छ्रिता। यदा मृण्मयी भवति तदा मध्यशूकस्यौष्ठार्धमच्छयम् / यदा रजसा तदा नोच्छ्यनियम इति। बाह्ये १०अधोऽधोऽग्राणि पद्मपत्राणि भमिपर्यन्तं वेदिकार्धमानेन कर्तव्यानीति / ततो बाह्ये सर्वदिक्षु भूम्यां कुशरचनां कुर्यादिति / तस्य कुशप्रस्तारस्य बाह्ये पश्चिम दिग्विभागे प्रभवति नियतं द्वारमेकं त्रिरेख[204a]मिति / इह कुण्डबाह्ये हस्तद्वयं त्यक्त्वा बाह्ये श्वेतरक्तकृष्णरजसा प्राकारत्रयं कृत्वा ततः पश्चिमेन. प्राकारदीर्घमानाष्टभागिकं द्वारं "त्रिरेखं मण्डलद्वारवत् सतोरणम् / एवं सर्वकुण्डेषु गुरुलघुकेषु हस्तद्वयं त्यक्त्वा प्राकार"त्रयनियमः // 72 // आचार्यस्यासनं वै खलु भवति समं गर्भपद्माद् द्विगुण्यं वामे चार्घासनं स्याद् भवति नरपते होमपात्रस्य सव्ये / सर्वेषां वज्रचिह्नं भवति जिनपतेर्वा खपद्मं हि मातुवक्त्रं गुह्यं च कुण्डं द्विविधमपि भवेद् बाह्यदेहे च राजन् // 73 // 20 25 १.ग. च. रस्र / 2. छ. मण्डले। 3. ग. बाह्यो। ४.ख. ग. च. द्विगुण / 5. च. 'हार' नास्ति / 6. क.ख. ग. छ.मिवकूली। 7. च. 'कर्तव्या' नास्ति / 8. ग. क्रव, क. ख.छ. कव / 9. ग. पञ्चभागं / 10. च. चाधो / 11. ग. दिग्भागे / 12. भो. 'त्रिरेखं नास्ति / 13. ग. 'त्रय' नास्ति /