________________ 70 विमलप्रभायो [ अभिषेक 4. मण्डलाभिषेकमहोद्देशः T390 . हुतं भुनक्ति यः सर्व स्कन्धादिसमिधादिकम् / . . प्रणम्य ज्ञानमग्नि तं वक्ष्ये तत्कुण्डलक्षणम् // कुण्डमष्टविधं प्रोक्तं शान्तिकादिप्रभेदतः। प्रत्येकदिग्विभागेन नवमं सार्वकमिकम् // मूलतन्त्राद्यदुद्धृत्य देशितं मञ्जवत्रिणा। संक्षिप्तं . मूलतन्त्रानुसारिण्या तद् वितन्यते // इह 'एकसप्ततिवृत्ता'द्युक्तं सार्वमिकादीनां कुण्डानां लक्षणमुच्यते-.. वृत्तं वा वेदकोणं भवति कुलवशाच्छान्तिपुष्टयोश्च कुण्डं वामे वा रुद्रकोणेऽपि च धवलमही मूलपद्मं द्विगुण्यम् / खानिः पद्मप्रमाणा भवति तदुदरे मूलपद्मं सचिह्न पद्माधं पद्मबाह्ये सघटमपि भवेत् खड्गरत्नादिचिह्नम् // 71 // वृत्तं वेत्यादिना / इह सर्वत्र चतुर्हस्तमण्डले सार्वमिकं वर्तुलं कुण्डं शान्ती, मण्डलार्धं पुष्टौ चतुरस्र मण्डलतुल्यं च। तत्र तावत् कुलवशाद ज्ञानचक्रं सर्वत्र गर्भे वचावलोस्तम्भान्तं "मण्डलादर्धभागं भवति, बाह्यचक्रार्धमानेनेति नियमात् / तदर्धेन मूलपानं तस्माद् गर्भपद्माद् द्विगुण्यम् / पुष्टी हस्तद्वयं चतुरस्रं वृत्तं गर्भपद्मप्रमाणं चैकहस्तम् / सर्वत्र ग्रामादिमध्ये पुण्यार्थम् / अथ कर्मानुरूपेण वामे वा रुद्रकोणे वापि च धवल महो रजोमण्डल वज्रज्वालाबाह्य हस्तद्वयान्तरेणेति / तत्र चतुरस्रं कुण्डं हस्तद्वयं १०विष्कम्भेण बाह्यचक्रार्धमानेन / खानिः पद्मप्रमाणेति। इह पुष्टिकुण्डे खानिः पद्मप्रमाणा वितस्तिद्वयं भवति / वृत्ते वितस्तिमात्रा भवति / तदुदरे गर्भपद्मम् / यथा मण्डले चतुर्हस्ते सचिह्न तथा चतुरस्र १'कुण्डे, यथा द्विहस्तमण्डले तथा वृत्तकुण्डगर्भे भवतीति / एवं यथा मण्डले पद्माध पद्मबाह्ये सघटं खङ्गादिचिह्न दिक्षु विदिक्षु, तथा कुण्डगर्भ शुक्लरजआदिना मृत्तिकया वा मूलपद्मादिकं कर्तव्यं सर्वकुण्डेषु / पश्चात् कर्मानुरूपेण पुष्टिमण्डले पिष्टतण्डुलादिना वर्णः कर्तव्य इति / चिह्नानि मण्डलचिह्नानि यथा। एवं कुण्डतले ब्रह्मस्थानात् तिर्यग् [203b] भाग एक १.क. ख. छ. 'एक' नास्ति / २.क. ख. च. छ. वृत्तादि / 3. छ. 'कुण्डानां' नास्ति / 4. च. चतुरस्र / 5. च. मण्डलार्ध / 6. ग. पद्मद्वि०। 7. भो. Yan Na ( अथवा ), छ. 'वा' नास्ति / 8. ग. भो. महो। ९.छ. 'वज' नास्ति / 10. भो. rGyar (विस्तरेण)। 11. क. ख. छ. कुण्ड / 12. क. ख. ग. छ. रजादिना / 13. ग. चिह्ननियमः /