________________ पटले, 65-70 श्लो.] मण्डलवर्तनं नाम महोद्देशः इत्येवं मातृकाया भवति कुलवशान्मण्डले मन्त्रभेदो मुद्राचिह्नानि वर्णो भवति हि सकलं वज्रिणो वक्त्रभेदैः / कुण्डे होमं च तद्वद् भवति च पुनरावाहनं तीथिकानां श्रीभूम्यां प्रोक्षणं चार्घविधिरपि तथा मारनिर्घाट(त)नं च // 69 // [202b] . / इत्येवं मातृकाया भवति कुलवशाद् मण्डले मन्त्रभेदः, मुद्राचिह्नानि वर्णों भवति हि सकलं वज्रिणो वक्त्रभेदैः। कुण्डे होमं च तद्वद् भवति च पुनरावाहनं तोथिकानां श्रीभूम्यां प्रोक्षणं चाविधिरपि तथा मारनिर्घाट(त)नं चेति वक्ष्यमाणक्रमेण सर्व वेदितव्यमस्मिन् वृत्ते संगृहीतमिति सर्वत्र नियमः // 69 // इदानीं मण्डले द्वाररक्षणाय शिष्या उच्यन्तेद्वाराणां रक्षणार्थ व्रतनियमयुताः शुद्धशिष्याः प्रदेया योगिन्यः श्रीघटानां शिखिदनुपवने चेशकोणे क्रमेण / आचार्यः श्रीगणेशो भवति नरपते कर्मवज्री प्रकृत्य शिष्याभावे गणेशः स्वयमपि कुरुते होमकर्मादिकं च // 70 // द्वारेत्यादिना। इह पूर्वादिद्वाराणां रक्षणार्थ व्रतनियमयुता इति। व्रतानि पञ्चविंशतिर्वक्ष्यमाणानि, . तेषु नियमो बुद्धानुज्ञा, तया युक्ता व्रतनियमयुताः / शुद्धशिष्याः, चतुर्दशमूलापत्तिरहिताः। ते प्रकर्षेण देया इति / द्वारेषु वज्रवज्रघण्टाहस्ता अभिषिक्ता अनुज्ञाता इति / योगिन्यः श्रीघटानां शिखिदनुपवने चेशकोणे क्रमेण इति। पूर्वव्रतादिपरिशुद्धा देया इति। तदा वज्राचार्यों घी गणेशो भवति नरपते कर्मवत्री प्रकृत्येति / इह पञ्चमः सुशिष्यः सर्वकर्मकुशलो दशतत्त्वपरिज्ञाता। तं होमादिकर्मकाण्डे कर्मवजीं कृत्वा मण्डले प्रतिष्ठां गुरुः कुरुते। इत्थ म्भूते शिष्याभावे स्वयमपि गणेशो होमादिकं करोति कर्मेति / चकारादन्यदपि वक्ष्यमाणकम् / 'इति मूलतन्त्रानुसारिण्यां द्वादशसाहस्रिकायां लघुकालचक्रतन्त्र राजटीकायां विमलप्रभायां मण्डलवर्तनं ____ नाम महोद्देशस्तृतीयः // 203au . 1. म. रक्षार्थ / 2. च. शुद्धया। 3. ग. च. ततो। 4. क. ख. च. छ. 'श्री' नास्ति / 5. क. ख. छ. वजि / 6. ग. म्भूत / 7. ग. च. कुरुते / ८.ग. इतिश्री।