________________ विमलप्रभायां [अभिषेक इदानीं नागबीजान्युच्यन्ते / इह 'पूर्वादेराद। सव्यावसम्ये वेदिकायां याविरूढो हकारः। फणिनां यथाक्रमं पद्मादीनामिति / इह पूर्वद्वारवामे कर्कोटकस्य वायुमण्डले ह्य। दक्षिणे ह्या पद्मस्य / अथवा ध्वजचिह्नम् / एवं दक्षिणद्वारे पूर्ववह्निमण्डले पश्चिमे च / 'ह्र ह्राः स्वस्तिकं वा / वासुकिशङ्खपालयोः 'उत्तरपूर्वापरे। बह्वा। उदकमण्डले। कुलिकानन्तयोः। पद्मं वा। पश्चिमद्वारदक्षिणोत्तरेण ह्र ह्रा / पृथ्वीम[202a]ण्डले तक्षकमहापद्मयोः / वज्रं वा / इति चिह्नन्यासः। ___ इदानीं श्मशानदेवीनां बीजान्युच्यन्ते-षड्बर्गा इत्यादिना। इह पूर्वाद्यष्टसु महाश्मशानेषु यथासंख्यम्। विक्चक्रे कादिवर्गा इति / क् ख् ग् घ् ङ इति / पूर्वचक्रमूनि कर्ती वा / पश्चिमे स्प्ष्श क / उत्तरे ल व र य ह / दक्षिणे क्षावियुक्ता ल व र य हा इति / एते 'चलवह्निवलयमध्ये चक्रमष्टारं कृत्वा तदुपरि चादयोऽन्येऽनुलोमा विदिक्षु च् छ् ज् झ् ञ अग्नी, ट् ठ् ड् ढ् ण नैऋत्ये, तथ् द् ध न वायव्ये, प फ ब भ म ईशाने इति / ता" अथ सर्वत्र ''कर्तृकाचिह्ननियमः // 67 // 10 पूर्वे याम्येऽवसव्ये वरुणहविदनौ चेशवायो क्रमेण .. अं अश्चन्द्रार्कयो चितिभुवनगता भूतवृन्दस्य मन्त्राः / / हूंकारो धर्मचक्रस्य च भवति तथाःकारबीजं घटस्य ॐकारो दुन्दुभेः स्यात् प्रभवति वरुणो बोधिवृक्षस्य होश्च // 68 // पूर्वे याम्येऽवसव्ये वरुणहविदनौ चेशवायो १२क्रमेणेति / इह पृथ्वीवलये अं चन्द्रस्य / अः सूर्यस्य बीजम् / चितिभुवनगता भूतवृन्दस्य सार्वत्रिकोटिसंख्यागणस्य भूतवृन्दस्यानन्त मन्त्रास्तत्संख्या" इति / अथवा नानाचिह्नानि वायुवलये कार्याणीति नियमः। इदानीं धर्मचक्रादीनां बीजानि / पूर्वतोरणे धर्मचक्रस्य हुँ', दक्षिणे भद्रघटस्य माः, उत्तरे दुन्दुभेर् ॐ, पश्चिमे बोषिवृक्षस्य हो // 68 // 1. ग. पूर्वार। 2. क. ख. ग. क. यदि / 3. म. द्वार। 4. च. भो. हा, म. ह्रस्वा / 5. प. भो. उत्तरद्वारपश्चिमपूर्वे। 6. ग. च. तरे / 7. भो. ह्न ह्ना / 8. म. क्ल० / 9. क. ख. छ. लोम्ने / 10. ख. ग. च. छ. भो. 'ता' नास्ति / 11. ग. कर्णिका। 12. भो. Zur Da ( कोणे ) / 13. च. नान्ता / 14. क. ख. संख्यां / १५.क.हूँ,च. हं।