________________ 72 विमलप्रभायां [ अभिषेक 10 आचार्यस्यासनं खलु भवति समं चतुरस्र कुण्डे गर्भपद्माद द्विगुण्यमिति / हस्तद्वयं चतुरस्रम् / एवं सर्वकुण्डेषु हस्तमेकं विष्कम्भम् / एवं वामे चा_सनं हस्तमेकं स्यात् / तथा सव्ये होमपात्रस्यासनं हस्तमेकम् / पुष्टी द्विहस्तमिति / सर्वेषामासनानां मध्ये पतितानि पद्मदलानि। आसनमध्ये विश्ववनचिह्न दातव्यम् / जिनपतेर्वा वज्रसत्त्वस्य वा खपऱ्या "हि मातुर्धर्मोदयो दातव्य इति सार्वमिके . वक्त्रं कुण्डं सस्यादीनां हवनार्थं 'गुह्यकुण्डं घृताद्यमृताहुति दानायेति। एवं द्विविधमपि भवेत् 'पद्मं बाह्यदेहे च / राजन्निति संबोधनम् / एवं सार्वमिककुण्डलक्षणनियमः। इदानीं पूर्वोद्देशितानां शान्त्यादीनां लक्षणं 'निर्दिश्यते। इह वृत्ते कुण्डे हस्तमात्रे हस्तमात्र गर्भपद्मं १°शुक्लं कणिकायां पद्मपत्रेषु १'चक्रादिचिह्नम् / पद्मार्धन खानिः पद्मद्वादशभागिकमोष्ठम् / तिर्य'ग्निःसृतम् / ऊर्बेन च तदर्धेनं तिर्यग्निर्गमो वेदिकोच्छयः / पद्मषड्भागिका वेदिका / ' वेदिकापञ्चभागानां भागद्वयं पूर्वापरं त्यक्त्वा भागत्रयेण पद्मावली। ततो वेदिकाधो बाह्ये पद्मपत्राणि दस्तिरणं १५कुर्यात् / प्राकारत्रयं द्विारतोरण[204b]मुत्तरं भवति / आचार्यस्यासनम् / अर्घासनम् / होमासनम् / आचार्यस्यासनस्य वामे सव्ये कर्तव्यम् / पौष्टिके हस्तद्वयं पद्म-ओष्ठादिकं द्वादशादिविभागिकं "कर्णिकायां चक्रम्, दले वज्रादिचिह्नम् / कोणे लोचनादिचिह्नम्। वेदिकायां चक्रावली। शेषं पूर्वकर्मवत् / एवं धनुराकारं शान्तिककुण्डं मध्यच्छेदितम् / मध्ये कमलं द्वादशाङ्गुलं तदर्धेन खानिः। ओष्ठादिकं सर्वं पूर्ववद् द्वादशादिभागिकम् / पद्मपत्रस्थाने चिह्न करतलाङ्गुली मालाधो बाह्ये मृतककेशरचना २°कमलकर्णिकायां "की। वेदिकोपरि कर्तिकावलीति। आचार्या सनं धनुराकारं "कर्तृकालाञ्छितम् / यथा शान्तौ पद्मलाञ्छितम् / पुष्टौ चक्रलाञ्छितमिति पञ्च"कोणशान्तिकुण्डप्रमाणम् / पञ्चकोणोपरि वेदिकायां खड्गावलो। गर्भचिह्नं च खगः। बाह्येऽधः काकपिच्छमालां मृण्मयीं कुर्यात् / कृष्णवर्णा बाह्ये भूतवृक्षपत्ररचनेति। त्रिकोणं कर्णात् कणं हस्तमेकम् / कर्णान्मध्यभागं विंशत्यङ्गुलं गर्भपद्मम् / तेनैव मानेन दशाङ्गुला पद्मार्धा खानिः। शेषं द्वादशभागादिना। ओष्ठादिकं पूर्ववत् / वेदिकायां 1. छ. समचतु। 2. च. स्कम्भः / 3. भो. bKod Pa ( रचिता०)। 4. ग. च. भो. 'वा' नास्ति / 5. क. ख. छ. हिमान्तर्द्ध० / 6. च. गुह्यं / 7. क. ख. ग. च. ०हुती। 8. ग.च. 'पद्म' नास्ति, भो. कुण्डं / 9. Gyas Par bSad Par Bya sTe ( वितन्यते)। 10. छ. शुक्ल / 11. भो. rDorJe La Sogs Pa ( ववादि)। 12. भो. Sal ( वक्त्र ) इत्यधिकम् / 13. क. 'वेदिका' नास्ति / 14. क. ख. छ. 'पूर्वापर' नास्ति / 15. च. कुर्यादिति / 16. ग. द्वारं / 17. क. मुत्तरणं / 18. ग. च. भो. सर्वत्र कणि। 19. ग. च. मृतके / 20. भो. 'कमल' नास्ति / 21. ग. च. कर्ती, छ. वन्त्री। 22. ख. ग. च. छ. ०द्यासनम् / 23. ग. च. भो. कतिका। 24. ग. च. छ. कोणं / 25. ख. वर्ण, ग. च. वर्णा, भो. hDab Ma(पत्र)। 25