________________ 10 विमलप्रभायां [ अभिषेकलोकधातुर्लक्षत्रयं योजनानामिति नियमः। वायुरेवं ततः स्यात् / तस्मात् क्रम'शीर्षात् जैनेन्द्रकोष्ठेश्चतुर्विंशत्यर्धाङ्गुलैः सर्वदिक्षु कायमण्डलद्वारान्तं वायु'वलयं लोकधातोरिति / एवं पूर्वापरं चतुर्लक्षं लोकधातुमण्डलं बाह्ये षण्णवतिद्विगुणविभागिकमिति कायमण्डलनियमः / पुनस्तद्वाह्ये कायमण्डलंतोरणावसाने तद्विशुद्धघा 'पृथिवीवलयादिविशुद्धया मेरु वर्जयित्वा क्षितिवलयं द्वादशार्धाङ्गलैः। शेषाणि प्रत्येकं चतुर्विशत्यर्धाङ्गलैर्दर्शनीयानि। ततो बाह्ये वज्रावली द्वादशभिः / सव्यावसव्ये भागत्रयं कृत्वा मध्ये षड्भागैर्वचावली कर्तव्या / तद्वाह्ये वज्रार्चिश्चतु विंशद्भिरिति लोकधातुविशुद्धिनियमः॥५२॥ इदानीमूर्ध्वाधोविशुद्धिरुच्यतेउष्णीषं वक्त्रकण्ठं त्रिगुणफणिपुरैर्मण्डले शोधनीयं तस्मान्मेरुः समस्तस्त्रिगुणफणिपुरैर्मेदिनी यावदेव / षट्पट[195a]कोष्ठैः क्रमेण स्फुटमहिभुवनं सप्तपातालमेव एवं भूम्यादि सर्व पुनरपि च तथा शोधनीयं स्वदेहे // 53 // द्वयब्ध्येकाब्ध्यैकसूर्ये ऋतुरसशिखिनोऽग्न्यर्धकालार्धकालैः कालेः कालप्रभिन्नैऋतुभिरपि रसैर्दोषभागैः क्रमेण / गर्भाद्वा कणिका चाब्जदलमपि ततः स्तम्भवज्रावली च पद्मं वज्रावली स्यात् क्षितिरपि च ततो द्वारनियूहकाद्यम् // 54 // स्तम्भाः प्राकारवेद्याः पुनरपि च ततः पट्टि का हारभूमिरादर्शक्ष्मा च पट्टी भवति नरपते तोरणं प्रोक्तभागैः / बाह्ये द्वारादि सर्वं द्विगुणमपि भवेत्तद्विगुण्यं च बाह्ये बाह्ये पद्मानि चक्राण्यपि च दिनकरैः स्यन्दनं मण्डलानि // 55 // उष्णीषमित्यादिना। इह बाह्ये मेरौ उष्णीषं पञ्चविंशत्सहस्रं द्वादशार्धाङ्गलविभागिकं मध्ये गर्भपद्मं तद्विभागिकम् / ततो वक्त्रं लक्षार्धं 'कण्ठं पञ्चविंशत्सहस्रम् / तेषु प्रथमे 3 भागे बुद्धचक्रम्. द्वितीये वक्त्रार्धे पञ्चविंशत्सहस्र अपरचक्रम् / शेषभागद्वये रजोभूमिरान्तम् / एवमूवधिः कण्ठान्तं लक्षयोजनं लोकधातुमण्डले। हस्तमेकं 25 1. क. ख. छ. कव। 2. क.ख. छ. जिनेन्द्र / 3. भो, dKyil hKhor (मण्डल) सर्वत्र। 4. ग. च. 'इति' नास्ति / 5. भो. 'पूर्वापर' नास्ति। 6. ग. 'पृथिवी"" विशुद्ध्या ' नास्ति / 7. च. छ. सव्यं / 8. ग. च. छ. शतिभि / 9. क. ख. छ. 'इह बाह्ये मेरौ' नास्ति / 10. ग. विशति / 11. ग. करणं / 12. ग. शति / 13. ग. प्रथम /