________________ पटले, 51-52 श्लो.] मण्डलवर्तनं नाम महोद्देशः राणां प्रोन्नतिस्त्रिगुण्या पीतरजःप्रोन्नतिः। अन्या रेखा सामान्या पीतरजसो द्विगुणा भवति / कमलानां पत्रबाह्ये कमलासनपट्टिकानामिति दिनकरशशिनोरन्जरेखा द्विगुण्या नियमो गर्भाद्वाह्ये द्विगुण्या 'मध्यमण्डले / तद् द्विगुण्या कायमण्डलेऽस्मिन् हारान्तेि यवैका क्रमशीर्षान्ते बाह्ये पूजाभूमौ / एवं क्षितिजलहुतभुग्वायुवलयेषु वज्रावलीषु च "घुणकद्वये प्राकारमानेन कायमण्डलस्येति रजःप्रोन्नतिनियमो धातुगुणभेदेन / अपर रजःपातः सर्वत्र त्रिगुणभेदेन समानः सर्वभूमिषु प्राकाराणां त्रिगुणस्त्रि'वलयप्रमाण इति रजोविशुद्धिः॥ 51 // इदानी लोकधातुशुद्धया रजोमण्डल शुद्धिरुच्यतेगर्भाद् द्वारादिसीम्नो भवति वसुमती मण्डले लोकधातो रेिभ्यश्चर्चिकान्तं त्रिगुणफणिपुरैः क्षाररत्नालयः स्यात् / तस्माज्जैनेन्द्रकोष्ठेरपि शिखिवलयं वायुरेवं ततः स्यात् तद्वाह्ये तद्विशुदया क्षितिजलहुतभुग्मारुता दर्शनीयाः / / 52 // गर्भादित्यादिना। इह यथा बाह्य तथा देहे। यथा देहे तथापरे रजोमण्डले। तेन लोकधातोर्यन्मानं चतुलक्षयोजनानाम्, तद्देहे हस्तचतुष्टयम् / एवं मण्डलेऽपि एकहस्तमारभ्य सहस्रहस्तं यावत् / सर्वमेव स्वहस्तेन चतुर्हस्तं मण्डलं षण्णवतिद्विगुणार्धाङ्गलात्मक विभागत्वादिति। अतश्चतुर्हस्तात्मकं सर्वमण्डलं भवति / तेन गर्भाव "द्वारादिसोम्नो भवति वसुमती ब्रह्मसूत्रात् सर्वदिक्षु द्वारपर्यन्तं चतुर्विंशत्यर्धाअलैर्वसुमती भवति। तत्र गर्भपद्मं द्वादशार्धाङ्गुलं पञ्चाश[194b]द्योजनसहस्रार्धमानेन तथागतपुटं सर्वदिक्षु षड्द्वीपषट्समुद्रषट्पर्वतान्तमधऊवं मेरुमानेन पञ्चाशत्सहस्रयोजनम्। ततः पृथ्वीवलयं सर्वत्र पञ्चविंशतिसहस्रयोजनम् / मण्डले रजोभूमि रान्तम्। एवं गर्भमण्डलं समस्तं लक्षयोजनम् / अष्टचत्वारिंशदर्धाङ्गुलविभागिकमिति नियमः / एवं गर्भाद् द्वारादिसीम्नो भवति वसुमती मण्डले लोकधातोरिति / एवं द्वारेभ्यश्चतुर्थ्यश्चदिक्ष चिकान्तं क्षाररत्नालयम क्षारोदकवलयं त्रिगुणफणि पूरैश्चतुर्दिक्षु चतुर्विंशत्यर्धाङ्गलैः। एवं वाङ्मण्डलं सर्वदिक्षु लक्षद्वयं भवति / पूर्वात् पराध यावदिति नियमः। तस्माद्वाङ्मण्डल"द्वारात् त्रिगुणफणिपुजिनेन्द्रकोष्ठः सर्वदिक्षु चतुर्विशत्यर्द्धाङ्गुलेरपि शिखिवलयं वाङ्मण्डल क्रमशीर्षान्तम् / ततः स्थानात् पूर्वापरं 25 1. च. भो. मध्यम / 2. क. ख. छ. यत्वेका / 3, क. ख. छ. कव / 4. क. ख. छ. पुणक / 5. क. ख. च. छ. 'रजः' नास्ति / 6. भो. dKyil-hKhor ( मण्डल)। 7. ग. विशुद्धि०। 8. ग. लक्षं। 9 क. ख. छ. त्रिभाग। 10. ग. सर्व / 11. ग. द्वारसीम्नो। 12. क.ख. ग. च. 'षड्द्वीप' नास्ति / 13. क. ख. छ. 'गर्भाद' नास्ति। 14. भो. Re Mig (कोष्ठः)। 15. च. मण्डलात् / 16. भो. 'त्रिगुणफणिपुरैः' नास्ति / 17. क. ख. छ. कव /