________________ 54 विमलप्रभायां [ अभिषेक आचार्यसंतानेऽपि। जिनकुलमण्डले तेन वेदितव्यः सर्वरजोविधिः प्रयत्नत' इति नियमः। इदानी चिह्नविलक्षणमुच्यते-इह चक्रं द्विविधम्, एकं देवतीनां समूहम्, अपरमष्टारमाधाररूपम् / तत्राष्टा रं कोणे श्वेतम्, दिक्षु रक्तम् / समूहरूपं / पुनः स्वजिनकुलवशात् स्वजिनवर्णेन देवीनां वर्ण इत्यर्थः // 49 // यन्नोक्तं तन्त्रमध्ये प्रकटमपि जिनमण्डले तन्न देयं चिह्न शोभार्थहेतोजिनजनककुले मारचिह्नं तदेव / तस्मात्तन्त्रो [193b]क्तचिह्नं भवति कुलवशान्मण्डले द्वारसीम्नो हारार्धान्ते प्रकुर्यात् क्षितिवलयगते पद्मकुम्भादिशोभाम् // 50 // यन्नेति / इह मन्त्रनये यस्मिन् तन्त्रे चिह्नं नोक्तं प्रकटमपि. जिनैस्तथागतैस्तचिह्न मण्डले न देयं शोभार्थम्, कुतः ? यतो मारचिह्न तद्भवति, विपर्यासाद् अधिकत्वादिति / जिनजनककुले वज्रसत्त्वकुले वज्राचार्यस्येति / तस्मात्तन्त्रोक्तविधिचिहं भवति / कूलवशात मण्डले द्वारसीम्नः। हारार्धान्ते प्रकर्यादिति। हारा|पलक्षणाद् वकुली क्रमशीर्षान्ते कायमण्डलान्ते क्षिति"वलयगते पद्मकुम्भाविशोभा प्रकुर्यादिति नियमः // 50 // इदानीं रजःप्रोन्नतिरुच्यतेकृष्णादेः पादवृद्धया भवति च रजसः प्रोन्नति यवैकात् प्राकाराणां त्रिगुण्या दिनकरशशिनोरन्जरेखा द्विगुण्या / गर्भाद्वाह्ये द्विगुण्या भवति नरपते . प्रोन्नतिर्मण्डलेऽस्मिन् हारार्धान्ते यवैका क्षितिजलहुतभुग्वायुवज्रावलीषु // 51 // कृष्णादेरित्यादिना / इह गर्भमण्डले वाय्वादिगुणभेदेन पादादिवृद्धचा रजःपातना भवतीति / यवस्यैकपादः कृष्णरजःप्रोन्नतिः। पूर्वे स्पर्शगुण विशुद्धया रक्तस्य द्वौ पादौ, स्पर्शरूपगुणद्वयविशुद्धया दक्षिणे श्वेतस्य त्रिपादाः, स्पर्शरूपरसगुणविशुद्धया उत्तरे पीतस्य, स्पर्शरूपरसगन्धचतुर्गुणविशुद्धया चतुःपादा प्रोन्नतिः पश्चिमे। एवं वाङ्मण्डले द्विगुणे, कायमण्डले चतुर्गुणे प्रोन्नतिरिति नियमः। यवोऽपि स्वस्वमण्डलाष्ट षष्ट्यधिकसप्तशतांशिको वेदितव्य इति / एवं प्राका[ 194a ] 15 T385 1. भो. bsGrub Bo (सिद्धयति) इत्यधिकम् / 2. क.ख. छ. .ष्टार / ग. 'यस्मिन् नास्ति / 4. क. ख. छ. कव / 5. भो. dKyil hKhor-(मण्डल)। ६.क.ख. छ. वृद्धघा / 7. ख. ग. षष्ठा /