________________ पटले, 47-49 श्लो.] मण्डलवर्तनं नाम महोद्देशः मध्यस्थाने षोडशार्धाङ्गलात्मके समृगमपि भवेद् धर्मचक्र घनाभम् / चित्त'चक्रविशुद्धया सव्यावसव्ये चक्रस्य मृगो मृगीति / ततोऽपरस्थाने पूजादेवता यथावर्णतः / एवं सव्ये दक्षिणतोरणे रक्तवर्णो भद्रघटो वाग्विशुद्धया तस्य सव्यावसव्ये शङ्खपद्मौ / सधनववरुणे धनदे दुन्दुभिचक्रः, श्वेतौ सव्यावसव्ये दण्डमुद्गरौ / पश्चिमे बोधिवृक्षः पीतः, सव्यावसव्ये किन्नरकिन्नरीति नियमः॥४७॥ घण्टादर्शाः पताकाः शशधरधवलास्तोरणा लम्बमाना हारार्धः श्वेतवर्णो भवति कुलवशात् स्यन्दनो द्वारमध्ये / चक्रं श्वेतं च रक्तं स्वजिनकुलवशान्मारुते द्वारबाह्ये वज्रज्वालास्फुरद्भिर्भवति नरपते बाह्यवज्रावली च // 48 // एवं घण्टादर्शाः पताकाः शशधरधवलास्तोरणा लम्बमाना हाराधः श्वेतवर्णों 10 भवति कुलवशात् स्यन्दनो द्वारमध्ये। चक्र श्वेतं च रक्तं स्वजिनकुलवशाद मारते द्वारबाह्ये वज्रज्वालास्फुरद्धिर्भवति नरपते बाह्यवज्रावली चेति / इह वज्रावल्या आद्य[193a]न्तं "घुणकं दत्त्वा तद्वाह्ये पञ्चरश्मिमयी ज्वालां दर्शयेत् / ततो मण्डलनिष्पत्तिः। पृथ्वीवलयक्रम शीर्षयोर्मध्ये यथाशोभानि पूजावस्तूनि कारयेदिति मण्डले रजोवर्णनियमः // 48 // इदानीं प्राकाररेखानां विलक्षणदोषमाह स्थूला व्याधि करोति प्रकटयति कृशा द्रव्यहानि कुरेखा .छिन्ना मृत्युं च वका सनृपजनपदोच्चाटनं तद्वदेव / चिह्न छिन्नेऽर्कचन्द्रे भवभयमथनी मन्त्रिणां नास्ति सिद्धिः गोत्रच्छेदो विमिश्रे रजसि जिनकुलमंण्डले वेदितव्यः // 49 // 'स्थूलेत्यादिना। इह शान्तौ पुष्टौ यदा रेखा विलक्षणा भवति, तदा कर्मविपर्यासो भवति / तत्र स्थूला व्याधि करोति 'दातुराचार्यस्य वा, कृशा द्रव्यहानि प्रकटयति कुरेखा। छिन्ना मृत्यं च प्रकटयति / वक्रा सनपजनपदस्य उच्चाटनं करोति तद्वदेवेति / चिह्न छिन्ने सति चन्द्रार्कासने वा छिन्ने भवभयमथनी या सिद्धिमन्त्रिणां सा नास्ति / परस्पर रजोििमश्रितैः गोत्रच्छेदो भवति दानपतिसंताने 20 1. क. ख. च. छ. वक्त्र / 2. ग. 'वाग्' नास्ति / 3. ग. च. भो. 'चक्रः' नास्ति / ...4. भो. ZLom sKor (वृत्तकं)। 5 क. ख. छ. कव। ६.ख. च. छ. स्थूलेत्यादि / 7. च. वाक्यविपर्यासः / 8. क. ख. छ. दान्त / 9. च. प्रकटयति यद् वक्रा सा मृपस्योच्चाटनं करोति कुरेखा। तद्वदेवेति / चिह्न छिन्ने सति छिन्ना मृत्युं च प्रकटयति / चन्द्रार्का० / 10. क. ख. छ. रङ्गो।