________________ 52 विमलप्रभायां [अभिषेकतास्त्रिभागान्तरस्था इ[192a]ति / इह वाङ्मण्डले प्रकृतिराकाशादिमण्डलप्रवाहः। तेन शान्त्यादिवश्यादिकर्मणि वामसंचार'वशेन सृष्टियोगेन आकाशवायुतेजउदकपृथ्वी व्यो) हरितकृष्णरक्तशुक्लपीतवर्णा यथानुक्रमेण गर्भादारभ्य वेदिकायां यावदिति / एवं मारणादिके स्तम्भनादिके पथिव्यादयः कार्या इति / प्रकृतिगुणवशाद् भवन्तीति / भागमेकं त्यक्त्वा भागद्वयेन प्रत्येकरेखा भवति यतः / तस्मात् प्राकारभूमिः पञ्चदश भागिका ज्ञातव्येति / एवं गर्भमण्डलप्राकारभूमिर्नव विभागिका। तथा कायमण्डले प्रकृतिरुच्यते-इह काये पञ्चाङ्गुलीनां कनिष्ठादीनां आकाशादिप्रकृतिः। तेन शान्तिकादौ मण्डले हरितवर्णादिरेखा सृष्टिभेदेन। मारणादौ पृथ्वीभेदेन संहारक्रमेणेति प्राकाररेखानियमः॥४६॥ 10 इदानीं नागराजानामासनान्युच्यन्तेस्तम्भाधो द्वारसन्धौ प्रभवति फणिनामासनं मारुताद्यं ऐशान्यां दैत्यकोणे क्षितिवलयगतौ चन्द्रसूर्यो नरेन्द्र / बाह्ये द्वारोवंभागे समृगमपि भवेद्धर्मचक्रं घनाभं सव्ये रक्तो घट: स्यात् सधनदवरुणे दुन्दुभिर्बोधिवृक्षः // 47 // स्तम्भाध इत्यादिना / इह बाह्यकायमण्डले तोरणस्तम्भानामधो वेदिकास्थाने द्वारसन्धौ प्रभवति फणिनामासनं मारुताद्यं पूर्वद्वारस्य सव्यावसव्यं वृत्तमारुतमण्डलं भवति गर्भ'पद्ममानेन / दक्षिणे त्रिकोणं वह्निमण्डलम् / आदिशब्दात् पश्चिमे" 'पृथ्वीमण्डलं चतुरस्रम्, उत्तरे 'अर्धचन्द्राकारं उदकमण्डलम्, कृष्णं रक्तं पीतं शुक्लं यथाक्रमेण बिन्दुस्वस्तिकवज्रपद्म[192b]लाञ्छनमिति / एवं कृष्णरक्तपीतशक्लहरितनीलद्वारादि स्यन्दनाः / श्मशानचक्राणि चन्द्रार्कवर्णानि यद्वक्ष्यति"चक्रं श्वेतं च रक्तम्" (3.48) इति / तथागतवर्णभेदेन सर्वत्र रजोभूमिरिति / 20 इदानीं चन्द्रादित्योदयस्थानमुच्यते। इह कायमण्डलतोरणावसाने यत् पृथ्वीवलयं द्वादशार्धाङ्गुलै" रचितं पीतवर्णम्, तत्रैशान्यां रात्रिवशाच्चन्द्रोदयं दर्शयेत् १२पूर्णिमायाम् / तथा दैत्यकोणे नैऋत्ये सूर्यास्तमनं दर्शयेत् / एवं क्षितिवलयगतो चन्द्रसूर्यौ भवतः / हे मरेन्द्र ! ततः कायमण्डले बाह्ये द्वारोज़भागे प्रथमपुरे तोरणस्य 25 1. ग. राकारादि / 2. ग. क्रमेण / 3. ग. च. भो. विभागिका / 4. क. ख. ग. च. मितामिका, छ. वितामिका। 5. ग. अर्धवृत्त / 6. ग. पद्मानां / 7. क. ख. छ. 'पश्चिमें' नास्ति / 8. च. पृथिवी / 9. ग. च. 'अर्ध' नास्ति / 10. च. क. ख. स्पन्दना / 11. छ. 0 ङ्गुली / 12. क. ख. ग. छ. पूर्णायाम् / ..