________________ / पटले, 44-46 श्लो.] मण्डलवर्तनं नाम महोद्देशः शङ्खो गण्डी मणिश्च क्रम इति च तथा श्वेतकुम्भाष्टसन्धी चन्द्रो रक्ताब्जमूनि प्रभवति दिनकृच्छवेतपद्मस्य चोर्ध्वम् // 44 // मध्य इत्यादिना / इह चित्तमण्डलमध्येऽधिपतिकमलं हरितमष्टपत्रं शान्तिकादिषु श्वेतवर्णादिकं भवति, सामान्येन हरितम् / अलिनिभा स्तम्भवज्रावली स्यात् / पद्मबाह्ये षोडशस्तम्भाः। पूर्वादयः खड्गरत्नचक्रपद्मावलीयुक्ताश्चत्वारश्चत्वार एव। इह गर्भकमलस्य चतुर्ष कोणेषु यथासंख्यम् ईशे शशिवर्णः शङ्खः, नैऋत्ये रविवर्णा धर्मगण्डो, अग्निकोणे कृष्णवर्णा चिन्तामणिः, वायुकोणे 'पोतः कल्पवृक्ष इति / एवं चतुर्दिक्षु षोडशस्तम्भान्तराले बुद्धदेवीनां च श्वेतकुम्भाः / अष्टदिक्षु कमलोपरि . स्थिताः कमलमुखा[191b] इति // 44 // रक्ताब्जे दैवतीनां भवति शशधरश्चासनं कणिकायां श्वेताब्जे कणिकायां भवति दिनकरो देवतानां च दिक्षु / बाह्ये वज्रावली स्याद्विभुकमलवशाद्वेदिका श्वेतवर्णा पीतस्तम्भा हिमाभा प्रभवति बकुली तोरणं विश्ववर्णम् // 45 // अत्र चन्द्रासनं रक्तपद्मोपरि देवीनां भवति। देवतानां श्वेताब्ज'मूनि सूर्यासनं भवति / कमलत्रिभागणिकायाम् अष्टदलानि वर्जयित्वा चन्द्रासनमपि। देवीनां कोणेषु देवतानां दिक्षु सर्वबाह्ये वज्रावली स्यात् / विभुकमलवर्णवशात् कर्तव्या, तोरणं विश्ववणं कर्तव्यमिति मूलमण्डले रजःपातवर्णनियमः // 45 // इदानीं वाक्कायमण्डलदेवतापट्टिकादिवर्णमाहश्वेताभा योगिनीनामपि वसुकमला पट्टिका सर्वदिक्षु दिग्भागे रक्तपद्मं भवति जिनवशाच्छ्वेतपद्मं च कोणे / चन्द्रादित्यैविहीनं द्विगुणमनुदलं चामराणां तथैव खाद्या याः पञ्चरेखाः प्रकृतिगुणवशात्तास्त्रिभागान्तरस्थाः॥४६॥ श्वेताभेति / इह वाङ्मण्डले योगिनीनामिच्छादीनां प्रतीच्छादीनां कायमण्डले पट्टिका श्वेताभा भवति / अपि वसुकमला "अष्टकमलाऽधारपट्टिका सर्वदिक्षु विदिक्षु / तत्र दिग्भागे रक्तवर्णानि पद्मानि भवन्ति। जिनवशात् बुद्धवशात् श्वेतपन च कोणे पानीति / तानि चन्द्रार्कासनविहीनान्यष्टदलानि / तथैवामराणां द्विगुणमनुदलं 'अष्टाविंशद्दलं चन्द्रसूर्यविहीनम् / वाङ्मण्डले खाद्या याः पञ्चरेखाः प्रकृतिगुणवशात् / T384 1. ख. पीताः / 2. क. ख. छ. वृक्षाः। 3. क. ख. ताङ्ग। 4. ग. श्वेता। 5. ग. 'अष्टकमला' नास्ति / 6. क. ख. छ. भवति / 7. भो. 'इति' नास्ति / 8. च. अष्ट / 9. ग. विंशतिदल /