________________ 5. विमलप्रभायां [ अभिषेकतथा सामान्यचक्रवर्तिनः कनकचूर्णं पीतम् / मुक्ताचूर्णं शुक्लम्, प्रवालचूर्णं रक्तम्, राजावर्तचूर्ण कृष्णम्, हरितं चतुरङ्गमिश्रमिति / शस्यैर्वा पञ्चभेदैरिति / मुद्गाद्यैस्तण्डुलेर्वाऽखण्डकैर्बहुविधमणिभिश्चूर्णरङ्गैः पिष्टरङ्गेर्वा साधारणैः सर्वसत्त्वानामिति / यथा वज्रस्तथाऽखण्डशस्यैः। यथा मरकतादिचूर्णैस्तथा पिष्टरङ्गैः। यथाविभवत एभिदिग्वि भागभूमौ रजःपातनं भवति। हे नप ! तदेव बुद्धभेदैर्वक्ष्यमाणैर्मण्डले। बाह्ये पुनः क्षितिवलये पीतेन, उदके श्वेतेन, वह्नौ रक्तेन, वायुवलये कृष्णेन क्रमेणेति // 42 // इदानी रजोभूमिवर्ण उच्यते पूर्वे श्रीकृष्णभूमिर्भवति रविनिभा दक्षिणे पश्चिमे च हेमामा चोत्तरेऽन्या शशधरधवला वज्रिणो वक्त्रभेदैः / श्वेता कृष्णा च रक्ता क्रमपरिरचिता पट्टिकाहारभूमिः पद्मानीन्द्वर्कवर्णैरमलशशिनिभा रक्तकृष्णा त्रिरेखा // 43 // 19:a] पूर्व इत्यादिना। इहाधिपतिचिह्नवक्त्रवशाद् दिग्विभागो मण्डले भवति भूम्यां कृष्णवक्त्रादिना / तेन पूर्वे श्रीकृष्णभूमिः चित्तविशुद्धया भवति, रविनिभा दक्षिणे वाग्विशद्धया, पश्चिमे हेमाभा पीता ज्ञानवक्त्रविशद्धया. उत्तरे चोन्या शुक्ला कायवक्त्रविशुद्धया। एवं वज्रिणो वक्त्रभेदैदिक्षु रजःपातनं कर्तव्यम् / तच्चैशानी दिशमारभ्य श्वेतरङ्गादिकं कर्मानुसारेण दिक्षु पातयित्वा ततो वक्त्रभेदेन पातनीयमिति नियमः। 20 इदानीं वेदिकादीनां रजोवर्णमाह-श्वेतेत्यादिना। इह वेदिका श्वेता 'सा च धारिणी पट्टिका रक्ता तदुपरि रत्नपट्टिका भूमिस्तत्र रत्नबन्धो विचित्रः, निर्यहस्तम्भसन्धौ रत्नखचितम्तः)। तथा कृष्णा हारभूमिस्तत्र हारार्धहारदर्पणचामराणीति / वकुलो श्वेता स्तम्भाः पीताः। क्रमशीर्षाणि शुक्लानि / देवताकमलानि चन्द्रवर्णानि सूर्यवर्णानि यथा सर्वगर्भमण्डले कायवाक्चित्त शुद्धया शुक्ला रक्ता कृष्णा रेखा भवति प्राकाराणामिति // 43 // गर्भपद्मादिवर्णमाहमध्ये पद्माष्टपत्रं हरितमलिनिभा स्तम्भवज्रावली स्यात् ईशे दैत्येऽग्निवाय्वोः शशिरविवपुषो कृष्णपीती क्रमेण / 1. ख. च. रङ्ग। 2. छ. 'पिष्टरङ्गैः' नास्ति / 3. ग. च. भागः, छ. भागे / 4. च. 'श्री' नास्ति / 5. छ. 'भवति"विशुद्धया' नास्ति / ६.क. ख. छ, 'सा च"वकुली श्वेता' नास्ति / ७.क ख. च. कव / 8. च. मण्डल / 9. च. विश० /