________________ पटले, 40-42 श्लो.] मण्डलवर्तनं नाम महोद्देशः नाष्टदलानि। चतुर्थसव्यावसव्येन षोडशदलानि / एवमष्ट विशद्दलानि कुर्यादिति / एवं गर्भद्वारं तमोगुणवशात् / तस्मान्मध्यमण्डलद्वारं रजोगुणवशाद् द्विगुणम्, तस्मात् सत्त्वगुणवशात् कायमण्डलद्वारं चतुर्गणमिति / एवं प्राकाराचं तोरणाद्यं त्रिवलयरचनोदकतेजोवायुवलय रचनां पत्र्यष्टकैश्चेति चतुर्विंशद्भिः प्रकुर्यात् // 40 // तेषामाद्यन्तभागे रविशशिवलयं बाह्यवज्रावलीं च कूर्यात कोष्ठेस्तदधैर्यदनिलवलये मण्डलान्ते च चक्रम् / स्तम्भाधो मण्डलं च प्रभवति फणिनां स्यन्दनं देवतीनां सूर्यैश्च द्वारमध्ये नभसि भुवितले पूर्वभागेऽपरे च // 41 // 10 तेषां त्रिवलयानाम् आदिभागे रबिशश्युदयवलयं कुर्यात् / अर्ककोष्ठ दशभिरिति तेषामन्ते बज्रावली कुर्याद् द्वादशभिः / चतुर्विद्भिर्वज्राचिरिति। तत्र यद् द्वारान्तचक्रं तद्वाय्वग्निवलयमध्ये प्रत्येकमष्टारं द्वादशभिरिति / बाह्यमण्डलस्तम्भाधो वेदिकायामासनं फणिनां वाय्वादिमण्डलं द्वादशभिः। स्यन्दनं द्वारमध्ये द्वादशभिः। तत्रैव वाङ्मण्डले तोरणं द्वादशाङ्गुलं वर्जयित्वा द्वितीये द्वारस्यार्धे स्यन्दनं कुर्यादिन्द्रादिदेवतापट्टिकातुल्यम् / पूर्वापरं तोरणकलशं वर्जयित्वा आकाशपातालरथं दर्शयेत् कायमण्डले / इति "मण्डलसूत्रपातनियमः // 41 // [190b] 15 इदानी रजःपातविधिमाह वज्राद्यैः पञ्चरत्नैः कनकमरकतर्विद्रुमौक्तिकाद्यैः शस्यैर्वा पञ्चभेदैर्बहुविधमणिभिः पिष्टरङ्गैस्तथैव / दिग्भागे रङ्गभूमो भवति नृप रजःपातनं बुद्धभेदैः पीतेः श्वेतारुणाद्यैः क्षितिजलवलये वह्निवाय्वोः क्रमेण // 42 // वज्राद्यैरित्यादिना। इह सूत्रपाते कृते सर्वदेवतास्थाने शोधिते ततो बलिं दत्त्वा गन्धपूष्पादिभिः पश्चाद् रङ्गपातमा२रभेत् / तत्र विभवानुरूपेण पञ्चरङ्गाः करणीयाः। चक्रवति विभवे वज्रायः पञ्चरत्नश्चूर्ण कारयेत् / तत्र मरकतैर्हरित चूर्णम्, इन्द्रनीलै: कृष्णम्, पद्मरागै रक्तम्, चन्द्रकान्तैः 1 श्वेतम्, कर्केतकैः पीतम्, महानीलैर्नीलमिति / 20 १.ग. च. मष्टा० / 2. ग. विशति / 3. ग. 'प्राकारा' इत्येव / 4. ग. च. रचनासु। 5. भो. brGyad Pagsum Gyis ( त्र्यष्टकेति)। 6. च. भागेन / 7. भो. Phyed (अर्ध) / 8. ग. च. मण्डल / 9. ग. च. भो. द्वादशार्धाङ्ग / १०.ग. पर। 11. ग. 'मण्डल' नास्ति / 12. क. माहरेद् / 13. क. ख. छ. विभावे / 14. ग. वर्णम् / 15. ग. च. शुक्लम् / 16. ग. तनैः, क. ख. छ. टकैः /