________________ 48 T 383 10 विमलप्रभायां [ अभिषेकन्तरे मूलपुरदेवतास्थानार्धविभागेन स्थानत्रयं तत्र बाह्यस्तम्भयोः सव्यावसव्यं' पुनः शालभञ्जिकां कुर्यात् / तदुपरि भागार्धेन पट्टिका द्वादशा(गुला। तदुपरि अष्टार्धाङ गुला दीर्घत्वेन हमिः। तदुपरि द्वाभ्यां कलशं सव्यावसव्यं ध्वजदण्डस्थानम् / एवं प्रत्येकपट्टिकाग्रे चामराणि, आदर्शश्च लम्बमानो ध्वजश्चेति[189b] तोरणमानलक्षणं मूलतन्त्रोक्तमिति। ___ इदानी वाङ मण्डलमुच्यते-षट्कोष्ठस्तोरणाधो "वसुकमलयुता पट्टिका योगिनोनामिति। इह वाङमण्डले ये चतुर्विभागाश्चतुर्दिक्षु षडर्धाङ गुलात्मकाः, तेषु भागद्वयेन गर्भमण्डलप्राकारवेदिका रत्नपट्टिका हारार्ध'हार वकुली क्रमशीर्षाणि पतितानि / शेष भागद्वयं तिष्ठति / तयोरेकभागं त्यक्त्वा अपरभागषट्कोष्ठेषु अध ऊर्ध्वं कोष्ठमेकैकं वर्जयित्वा मध्ये चतुर्विभागैर्योगिनीनामष्टकमलपट्टिका सर्वदिक्षु कोणेषु पद्मानि / तोरणाधो दिक्ष द्वितीयपरे मत्तवारणं चतरर्धाङगलमात्र भञ्जयित्वा योगिनीनां कमलं. कुर्यात् / स्तम्भयुग्ममपसारयित्वाऽर्धाङ गुलार्धमात्रम् / देवतीनामभावे पुनः पूर्वोक्तलक्षणम्। तेनैव लक्षणेन बाह्ये वाङ्मण्डले सर्वं द्विगुणं भवति द्वारादारभ्य तोरणान्तमिति नियमः // 38-39 // इदानीं कायमण्डलमुच्यते- तस्मात् श्रीरङ्गभूमी रसगुणितयुगैः पञ्चरेखां हि यावत् दिक्कोणेष्वर्कपद्मं द्विगुणमनुदलं सूर्यकोष्ठैः प्रकुर्यात् / गर्भद्वारं द्विगुण्यं त्रिविधगुणवशाद् द्वारमप्यत्र बाह्य प्राकाराचं तथैव त्रिवलयरचनां व्यष्टकैश्च प्रकुर्यात् // 40 // तस्मादित्यादिना। इह कायमण्डले चतुर्दिक्षु ये चतुर्भागा द्वादशार्धाङ्गुलात्मकाः तेषु भागद्वये वाङ्मण्डलप्राकारवेदिका रत्नपट्टिका हारार्ध हारवकुली क्रमशीर्षाणि पतितानि। शेष भागद्वयं तिष्ठति / तस्माद्वाङ्मण्डलान्तात् श्रीरङ्गभूमी रसगुणितयुगैरिति / चतुर्विंशद्भिरर्धाङ्गुलैर्भवति पञ्चरेखां हि यावदिति नियमः। दिक्कोणेषु तत्र मण्डले[190a] अर्कपद्ममिति द्वादशपद्मानि द्विगुणमनुदलमिति / अष्टाविंशति 5. दलानि / सूर्यकोष्ठदिशार्धाङ्गलभागैरिति / तानि द्वादशार्धामुलानि सप्त"विभागं कृत्वा मध्यभागेन कर्णिकाद्वितीयसव्यावसव्यभागेन चतुर्दलम्। तृतीयसव्यावसव्ये स 1 1. ग. सव्ये / 2. क. साल० / 3. क. ग. कलसं / 4. क. ख. छ. चमु / ५.क. ख. छ. भागे द्वयेन / 6. च. 'हार' नास्ति / 7. क. ख. छ. वहुली। 8. क. ख. च. छ. कव / 9. ग. गुणितं / 10. च. 'हार' नास्ति / 11. क. ख. च. छ. कव / 12. ग च. शत्यर्धाङ्ग / 13 छ. मण्डलेषु / 14. क. ख. विशद् / 15. ग. 'वि' नास्ति / 16. क. ख. छ. 0 दलाम् /