________________ पटले, 38-39 श्लो.] मण्डलवर्तनं नाम महोद्देशः प्राकारभूमितोरणस्तम्भा' भवन्ति सार्धसार्ध विभागेनेति। ततो बुद्धासनाद्वाह्येऽङगुलार्धेन बाह्ये वज्रावली भवति बुद्धदेवीनां मध्ये। कक्षेष्वष्टासनानि घटानां कपालानां वा भवन्ति / त्र्यर्धाङ्गुलविभागेन वामदक्षिणेन षोडशस्तम्भान्तरे / शेषं बुद्धासनमानेनेति / ततो वज्रावल्या स्त्र्यर्धाङगुलं भागद्वयं त्यक्त्वाऽर्धाङ्गुलेन सूत्रं पातयित्वा ततश्चतुर्मिर्गन्धादीनां देवीनां घ्राणादीनां देवतानामासनार्थं सूत्रं पातयेत् / ततोऽर्धाङ्गुलं त्यक्त्वा सार्धाङ्गुलेन प्राकारत्रयं भवति / एवं प्राकारभूमेद्विगुणा वेदिकाभूमिः। वेदिकार्थेन "रत्नपट्टिका द्विगुणा 'हारार्धभूमिः। हारभूमेरर्धा वकुली कवशीर्षकम् / एवं 'हारतुल्यं नि! हं नि! हतुल्यं पक्षकं कपोलं च। तथा द्वारमानात् स्तम्भोपरि त्रिगुणं तोरणम् / एवं गर्भमण्डले सूत्रपातनियमः। एवं 'सूत्र वै ब्रह्मसूत्रात्' इत्यारभ्य 'प्रभवति वकुली चार्धहारावसाने' ( 3 / 39 ) इति पर्यन्तं पूर्वसूत्रपातः। पुनर्मण्डलार्थमपरो 'द्वयब्ध्येकाब्ध्येक'(३५४) इत्यारभ्य 'तोरणं प्रोक्तभागैः'(३।५५) इति पर्यन्तं चित्तमण्डले उभयसूत्रपातः प्रोक्त इति चित्तमण्डले नियमः। ____10 इदानीं मूलतन्त्रोक्ततोरणलक्षणमुच्यते / इह तोरणं सर्वत्र द्वारमानात्रिगुणं भवति / तत्र चित्तमण्डलेऽर्धाङगुलैः षड्भिर ततस्त्रिगुणम् अष्टादशार्धाङ्गुलैस्तोरणं भवति / तदेव त्रिपुरं कारयेत् / प्रथमं पुरमर्धामुलै: षड्भिः , द्वितीयं सार्धचतुर्भिः, ____15 तृतीयं त्रिभिः सार्धेः। ततो हर्मिभ्याम्। द्वाभ्यां कलशमि[189a]ति। एवमष्टादशभागैस्त्रिपुरं तोरणमिति। तत्र प्रथमपुरे अर्धाङ्गुलविभागेन स्तम्भोपरि पट्टिका दीर्घत्वेन चतुर्विंशत्यङ्गुला"। तदुपरि अर्धागुलविभागेन मत्तवारणं दीर्घत्वेन षोडशार्धाङ्गुलम् / तदुपरि गर्भकणिकामानेन चतुरस्र मध्ये पूजादेवीनां" स्थानम् / तस्य सव्यावसव्ये अर्धाङ्गुलेन स्तम्भं तयोः १२सव्यावसव्ययोर्देवीस्थानम् / ततः पुनः 20 स्तम्भं सव्यावसव्ये / तयोः सव्यावसव्यं तोरणस्तम्भोपरि आक्रान्तगजसिंहयुगलं मूनि शिरसा दर्शयेत् / तयोः शिर उपरि अधः पट्टिकार्धभागेन चतुःस्तम्भोपरि दीर्घत्वेनाष्टादशार्धाङमलापट्रिका भवति / तदुपरि मलमत्तवारणवद् मत्तवारणं दीर्घत्वेन द्वादशार्धाङ्गुलम् / तदुपरि पादोनार्धाङ गुलविभागेन प्रत्येक स्तम्भम्। स्तम्भान्तराले त्रिभिस्त्रिभिरर्धाङ गुलैस्त्रीणि देवतास्थानानि चिह्नस्थानानि वा, बाह्यस्तम्भयोः ____ 25 सव्यावसव्यं "शालभञ्जिकां कुर्यात् / तयोः शिर उपरि चतुःस्तम्भोपरि पुनरर्धाङ गुलार्धभागेन पट्टिका दीर्घत्वेन पञ्चदशार्धाङ गुला / तदुपरि मत्तवारणं पूर्ववद् अर्धाङ गुलेन दीर्घत्वेनाष्टार्धाङ गुलं तदुपरि अङ गुलार्धाविभागेन प्रत्येकस्तम्भं कुर्यात् / स्तम्भान्तरा 1. च. स्तम्भानि / 2. च. 'वि' नास्ति / 3. च. कक्षे स्वस्वा०, भो. Le TsherNams La ( कोष्ठेष्व०)। 4. क. कल्याः अर्धा० / 5. क. ख. च. भो. 'रत्नपट्टिका' नास्ति। 6. भो. Do Sel Dai Do Sel Phyed ( हारार्धहार ) / 7. भो. क्रम / 8. ख. च. छ. भो. द्वार / 9. च. प्रथमपुर / 10. भो. Sor Phyed (त्यर्धाङ्गला ) / 11. च. देवीस्था० / 12. च. भो सव्यं पुनः / 13. च. ०काद्यर्ध / 14. छ. हस्तम् / 15. क. ख. छ. साल /