________________ विमलप्रभायां [अभिषेकविभागास्त्र्यांगुला भवन्ति चित्तमण्डले। एवं भवति वसुयुगैरष्टचत्वारिंशद्भिरर्धामुलैस्त्र्याङ्गलात्मकैः षोडशविभागैरिति / तेषु ब्रह्मसूत्राद् 'वामदक्षिणं पूर्वापरं भागद्वयं 'चतुर्दारमानार्थमुक्तं भगवता चित्तमण्डले / एवं व्यर्धाङ्गुलं भागचतुष्कं वाङ्मण्डलद्वारार्थमुक्तम् / तथा व्यर्धाङ्गुलभागाष्ट[188a]कं कायमण्डलद्वारार्थमुक्तमिति / एवं चित्तवाक्कायमण्डले चक्राष्टभागिकं द्वारं स्वस्वचक्रमानाद्भवति / चक्रं च प्राकारादि सीम्ना वेदितव्यम् / त्रिमण्डलेप्येवम् / / 37 // तत्स्थानाद् रङ्गभूमिर्भवति दिनकरैश्च त्रिरेखं हि यावद् दिक्कोणेष्वब्धिकोष्ठः शशिरविकमलान्येव गन्धादिकानाम् / सार्धेकेन त्रिरेखं भवति ऋतुरसैरिनिर्वृहकाश्च तद्वत्पक्षे कपालं त्रिभिरपि च महावेदिका स्तम्भमधम् // 38 // तस्यार्धे नष्टकालैर्भवति मणिमया पट्टिका द्वारभूमि सस्तम्भं तोरणं स्यात्रिगुणितदशभिरमूलादितश्च / सूत्रार्धं मूनि वज्यं प्रभवति बकुली चार्धहारावसाने षट्कोष्ठस्तोरणाधो वसुकमलयुता पट्टिका योगिनीनाम् // 39 // *ब्रह्मसूत्राद् वाम दक्षिणपूर्वापर मङ्गलार्धद्वयं सूत्रं पातयेत् / गर्भकमलकर्णिका नायकासनाथं चतुर्षु दिक्षु द्वारेषु देवता पद्मासनार्थमिति। ततो वामदक्षिणपूर्वापरदिक्षु अब्धिरिति चतुरर्धाङ्गुलानि कमलदलानि भवन्ति / नायककमलं शेषाणां देवतादेवतीमामासनानां त्रिगुणम् / एवं ब्रह्मस्थाने अर्ककोष्ठेरिति द्वादशार्धाङ्गुलैर्भगवतः पद्मम्, पद्मत्रिभागिका कणिका चतुरर्धाङ्गुला भवतीति नियमः। दिक्षु पत्रमध्ये सूत्रं पातयित्वा शेषं 'त्र्याङ्गुलं द्विधा कृत्वा सपादा व्यङ्गुलविभागेन गर्भमण्डले रेखात्रयं भवति / अपरेण पक्षकं भवति / ततः कमलपत्रबाह्ये एकेनार्धागुलभागेन वजावली स्था[188b]नम् / ततश्चतुर्भिरर्धाङ्गुलैर्देवताकमलानि कमलमध्ये सूत्रं पातयित्वा "पूर्ववज्रावलीभागेन साधं त्रीण्यर्धाङ्गुलानि भवन्ति / तेषु मध्ये सूत्रं दत्त्वा "कपोलस्थाने 1. भो. Byan Dai Lho Dan Sar Dan Nub ( उत्तरदक्षिणं पूर्वपश्चिम ) / 2. भो. sGo bSihi Don Du (चतुर्दारार्थ) / 3. क. ख. ग. च. सीम्नो / * अत्र ग. मातृका खण्डिता छायाप्रतिश्च शोभना नास्ति / 4. भो. सर्वत्र 'वाम' स्थाने 'उत्तर', 'अपर' स्थाने पश्चिम इति / 5. च. दक्षिणं / 6. च. •मर्धाङ्गु / 7. भो. Sor Phyed ( अर्धाङ्गुलं ) / 8. च. सार्धार्धाङ्गुलं / 9. ख. भो. त्र्यङ्ग / 10. छ. भवतीति / 11. क. वलि / 12. भो. sNa Ma Ma Yin Pahi (अपूर्व ) / 13. छ. त्रीण्यङ्ग्लानि / 14. क. ख. कपाल / ___20