________________ पटले, 37 श्लो.] मण्डलवर्तनं नाम महोद्देशः चक्रं वाब्जं हि भर्तुस्त्रिगुणमपि भवेद्देवताद्यासनानां ब्रह्मस्थानेऽर्ककोष्ठः पुनरपि शशिना स्तम्भवज्रावली स्यात् / बुद्धाद्यब्जं चतुर्भिः प्रभवति शशिना बाह्यवज्रावली च देवीबुद्धान्तराले भवति घटकपालासनं वा त्रिकोष्ठः // 37 // 'स्वरूपतो भूयश्चतुःपञ्चाशदादिवृत्तद्वयेनोक्तम् / "द्वयब्ध्येकाब्धयेकसूर्यैः" ( 3.54) इत्यादिभागैनियमः / तस्मादेभिरर्धागुलो क्तकोष्ठैर्यन्मानं तदाचार्यप्रपश्चार्थम् / यदपरं द्वयब्ध्यादिभागैस्तद्वालशिष्यप्रबोधाय उक्तमिति। तस्मा [187b]द्यानि सूत्राणि लोपनीयानि तानि न पातनीयानि। इत्यपरविधौ नियमः / तस्मान्मूलतन्त्रानुसारेण सूत्रपात उच्यते / निष्प्रपञ्चचन्द्रकलाशुद्धयेति / तथा भगवानाह चतुरस्रं समं भूम्यां कृत्वा षोडशभागिकम् / कायमण्डलकं त्यक्त्वा पुनः षोडश भागिकम् // . वागाद्यं मण्डलं कुर्यात्ततो वाङ्मण्डलं त्यजेत् / चित्तमण्डलकं कुर्यात् पुनः षोडशभागिकम् // एवं त्रिपक्षसंशुद्धं मण्डलं त्रिगुणात्मकम् / ततो द्वथब्ध्यादिभागैस्तं सूत्रयेन्मण्डल त्रयम् // इत्यादिसूत्रनियमः कायवाक्चित्तमण्डले भगवतोक्तः / तेन मूलतन्त्रोक्तविधिना वज्राचार्येण सूत्रपातः कर्तव्यो लोप्यानि सूत्राणि वर्जयित्वेति नियमः। अत्रापि द्विगुणषण्णवति विभागार्धाङ्गला उक्ता भवन्ति चतुर्हस्तात्मके त्रिमण्डले / तत्र षोडशविभागेषु प्रत्येकविभागो द्वादशार्धागुलो भवति / एवं षोडशभागेषु द्विगुणषण्णवत्यर्धा गुलानि भवन्ति / अतः प्रथमं षोडशविभागं मण्डलार्थ भूमितलं कर्तव्यम् / ततो बाह्ये चतुर्दिक्षु चतुर्विभागं त्यक्त्वा उभयपार्वेऽष्ट भाग(गा)स्त्यक्त्वा(क्ता) भवन्ति वाङ्मण्डलार्थम् / ततो वाङ्मण्डले भागाष्टकं यत्तदेव षोडशविभागं कुर्यात् / प्रत्येकभागमध्ये सूत्रं दत्त्वा ''तत्र षोडशविभागाः "षडर्धाङ्गुला भवन्ति / तेषु पुनश्चित्तमण्डलार्थ पूर्वे भागचतुष्कम् अपरेऽप्येवं "वामदक्षिणेऽप्येवं त्यक्त्वा अपरं गर्भे भागाष्टक षोडशविभागं कुर्यात् / प्रत्येकभागमध्ये सूत्रं दत्त्वा तत्र षोडश 15 20T382 25 1. क. ग. पुरतो / 2. क. ख. ग. च. छ. त्रिपञ्च० / 3. छ. नोक्ते / ४.क. ख. लोष्ठ / 5. ग. च. भो. पातितव्यानि / 6. च. भागकम् / 7. च. द्वयम् / 8. च. भो. 'वि' नास्ति / 9. ग. धंदशाङ्ग / 10. ग. विभा०, छ. भागं / 11. च. ततः / 12. च. षोडशार्धाङ्गलानि / 13. भो. Nub ( पश्चिमे ) / 14. ग. च. वामे, भो. Byai ( उत्तरे)।