________________ विमलप्रभायां [अभिषेक 3. मण्डलवर्तनं नाम महोद्देशः प्रणिपत्य त्रिवजाग्रं कालचक्र महासखम्। . . नायकं माण्डलेयानां मण्डले यष्टभागिके // चन्द्रशुक्रकलाभागैर्वज्रसूत्रप्रपातिते / भूयो भूयः कलाभागैः कायवाक्चित्तमण्डले // मूलतन्त्रानुसारेण लक्षणं वितनोम्यहम् / लघुतन्त्रे प्रपञ्चेन यदुक्तं मञ्जुवज्रिणा // अहङ्कारविनाशार्थमषीणां जातिवादिनाम् / चतुर्हस्तेऽङ्गुलार्धे 'स्तत्सूत्रैः श्रीमण्डलत्रये // इह परमादिबुद्धादुद्धृतं मण्डललक्षणं पञ्चविंशत्तमादिवृत्तैः सङ्गीतं मञ्जुश्रिया यत्तदिदानी वितन्यते मूलतन्त्रानुसारेण सूत्रं वै ब्रह्मसूत्राद् रसनवतिरिदं दिग्विभागप्रदेयं .. सूत्रैरर्धाङ्गुलोक्तेर्भवति वसुयुगैमण्डलं गर्भमध्ये / गर्भाद्वाह्ये समस्तै रचितमपि महामण्डलं द्वारसीम्नः प्राकारांस्तोरणाद्यं शिखिचलवलयं दर्शयेद्वाह्यभूम्याम् // 36 // सूत्रमित्यादिना। इह पूर्वमण्डलभूम्यां पश्चिमे वज्राचार्यः पूर्वाभिमुखः पूर्वे शिष्यः कर्मवजी पश्चिमाभिमुखः मण्डलभूमिं चतुरस्रां मापयित्वा मध्ये ब्रह्मसूत्रं [187a] पातयेत्। तत आचार्यो दक्षिणे उत्तराभिमुखः शिष्य उत्तरे दक्षिणाभिमुखो ब्रह्मसूत्रं पातयेदिति ब्रह्मसूत्रनियमः। कोणसूत्रं पातयेद्वा कोणशुद्धयर्थम् / ततो ब्रह्मसूत्रात् सूत्रं रसनवतिरिदं दिग्विभागप्रदेयमिति / इह मध्यब्रह्मसूत्राद् दक्षिणदिग्विभागे षण्णवतिः। उत्तरे षण्णवतिः, पूर्वे षण्णवतिः, पश्चिमे षण्णवतिरिति सूत्राणि दत्त्वा प्रकर्षेण सूत्ररर्षाङगुलोक्तंभवति वसुयुगैरिति। तेषु सूत्रेष्वष्टचत्वारिंशत्सूत्रैमण्डलगर्भमध्ये चित्तमण्डलं भवतीत्यर्थः। गर्भावार्थी समस्तैरिति द्वानवत्यधिकशतै रचित मिति। महामण्डलं द्वारसोम्न इति / गर्भमण्डलसूत्रेभ्यो द्विगुणसूत्रैर्वाङ्मण्डलं भवति द्वारसीम्नः। वाङ्मण्डलसूत्रेभ्यो द्विगुणैः कायमण्डलं भवति द्वारपर्यन्तमिति / ततः कायमण्डले पञ्चप्राकारान् तोरणं च पृथिव्यादिवलयचतुष्कं वज्रावलिं वर्शयेद् बाह्यभूम्याम्, आकाशभूम्यामित्यर्थः। इति सूत्रपातनियमो यः 'सप्रपञ्चार्थेनोक्तः // 36 // 1. क. ख. ग. छ. ०ततः सूत्रः। 2. क. पञ्चविंश०, भो. Sum CurTsa Drug ( षट्त्रिंशत् ) / 3. भो. gNis Pa ( द्वितीयं ) इत्यधिकम् / 4. ग. 'इति' नास्ति / 5. ग. च. मपि / 6. क. ग. सप्तपञ्चा० /