________________ 43 T381 पटले, 35 श्लो.] रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः ताडय ताडय, वज्रपशुना छिन्न(न्द) छिन्न(न्द', सार्द्धत्रिकोटिखण्डं कृत्वा श्मशानभूम्यां सर्वभूतेभ्यो वलिं कुरु कुरु, वज्रडमरुकेन वज्रडाकिनीरावाह्य वज्रडाकिनीभ्यो मारकायिकानां रुधिरं निवेदय निवेदय, पञ्चामृतहारिणीभ्यः पञ्चामृतं निवे[186a]दय निवेदय सर्ववज्रडाकिनीसहितः सर्वसत्त्वानां शान्तिकं पौष्टिकं रक्षावरणगुप्ति कुरु कुरु हुं हूं फट्-इति प्रत्यङ्गमालामन्त्रो भगवतो वज्रभैरवकालचक्रस्य सर्वमारविघ्नापराजितप्रेताद्यधिपतीनां सर्वदुष्टानां सप्तवारमावर्तितो निग्रहं करोति / अस्यापि पूर्वं कोटिजापो दशलक्षहोमः कर्तव्यः। प्रत्येककर्मणि दशलक्षजापो दशायुत होम इति नियमः। ततो मारनिग्रहं कृत्वा पुनः पुनः शय्यासनं कुर्याद् यावत् शुभनिमित्तं लभते / ततः शय्यां विहाय वज्रवज्रघण्टां गृहीत्वा पुनरेव बलिं दद्यात् / ततो मण्डलपश्चिमभूम्यां पूर्वाभिमुखो वज्रसूत्रं गन्धधूपादिभिः संपूज्य ततः श्रीखण्डशालिपिष्टरुधिरविषचित्यङ्गारकुङ्कमरक्तचन्दनहरिद्रातालकोदकेन शान्त्यादिकर्माभिप्रायेणालोड्याचार्यो वाममुष्ट्या शिष्यो दक्षिणमुष्ट्या पश्चिमाभिमुखः सूत्रं संगृह्य पश्चिमपूर्वभूम्यां प्रसार्य इमं मन्त्र"मुच्चारयेत्-ॐ आः 'हूं अ कायवाक्चित्तैकभूताः सर्वधर्मा एकाकारेण वज्रसत्त्वोऽहं वज्रभूमि सूत्रयामि हूं आः फट / ततो वज्रसूत्रेण मन्त्रमुदाहरेत् / ॐ वज्र- सूत्रैकाकार स्वरूपेण जः जः जः सर्वधर्मान् सूत्रय ॐ आःहूं हो हं क्षः फट / वामार्द्धपर्यको दक्षिणपादोऽवनौ निषण्णः शिष्यो दक्षिणपर्यको वामपादो 11 भूमौ निषण्णः "पूर्वापरं ब्रह्मसूत्रं पातयेत् / तत आचार्यो दक्षिणभूम्यां स्थितः शिष्य उत्तरभूम्यां स्थितो दक्षिणोत्तरं ब्रह्मसूत्रं चतुर्दारेषु गतं पूर्वापरदक्षिणोत्तरकीलकमूनि ततः स्वरुचिना कोणसूत्रं पातयेत् / पुनस्तेनैव पर्यङ्कादि विधिना वायव्याग्नेयसूत्रं पातयेत् / नैऋत्येशानम्, ततो दिशापरिघं वर्जयित्वा पूर्वापरब्रह्मसूत्रादारभ्य दक्षिणभूम्यां सूत्रं पातयेत्। तत उत्तरभूम्यां ततो दक्षि[186b]णोत्तरब्रह्मसूत्रात् पश्चिमभूम्यां ततः पूर्वभूम्याम् / ततो गन्धधूपादिकं दत्त्वा मण्डलकार्यसूत्राणि संरक्ष्य सर्वशेषाणि लोपयेत् / सर्वद्वाराणि संशोध्य पुनर्गन्धधूपादिकं बलिं दत्त्वा पूर्वोक्तविधिना मन्त्रजापं कुर्यादिति // 35 // इति "मूलतन्त्रानुसारिण्यां १"लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमल प्रभायां रक्षाचक्र पूर्वङ्गमभूम्यादिसंग्रहमहोद्देशोऽभिषेकपटले द्वितीयः // 2 // 15 / 1. क. ख. छ. युतो। 2. च. भो. शय्याशयनं / 3. भो. Bar Duho ( तावत् ) इत्यधिकम् / 4. क. ख. ग. छ. इदं / 5. ग. च. भो. मदाहरेत / 6. भो.हं काय / 7. भो. हुँ। 8. ग. स्वरूपे / 9. भो. हूं। 10. ग. च. भो. होः / 11. क. छ. पादौ / 12. भो. Sar Dan Nub (पूर्वपश्चिम)। 13. भो. rNam Pa (दिप्रकारेण ) / 14. ग. 'श्री' इत्यधिकं / 15. ग. च. 'लघु"""टीकायां' नास्ति / 16. ग. च. प्रभाटीकायां /