________________ पटले, 55-56 श्लो.] मण्डलवर्तनं नाम महोद्देशः समन्तादिति गर्भमण्डलनियमः। एवमुष्णीषं वक्त्रकण्ठं त्रिगुणफणि'पुरैमण्डले सव्यावसव्ये शोधनीयमिति नियमः। तस्मात् कण्ठान्मेरुः समस्तः / लक्षयोजनं कट्यन्तम् / ऊर्ध्वाधः त्रिगुणफणिपुरैश्चतुर्विंशत्यर्धाङ्गुलैः सव्यावसव्यं शोधनीयम् / मण्डले वाग्लक्षण इति / मेदिनी यावदेवाधः। तस्मात् षट्पट्कोष्ठैः क्रमेण पञ्चविंशद्योजनसहस्रात्मकैः षड्विभागिकैर्लक्षद्वयम् / अष्टविभागं कृत्वा। अहिभुवन[195b] स्फुटं 'सप्तपातालं नरकभुवनं प्रत्येकं शोधनीयं शरीरे। कटिमारभ्य पादतलान्तम् अष्टविभागं कृत्वा रज़ोमण्डले शोधनीयम् / कायमण्डलान्तम् / सर्वदिक्षु चतुर्दारपर्यन्तं ब्रह्म स्थानादिति नियमः। एवं भूम्यादिसर्व पुनरपि च ततः शोधनीयं स्वदेहे सर्वेषां सत्त्वानां मनुष्यादीनामिति 'मण्डलविधिनियमः // ___10 ___15 तथा मूलतन्त्रोक्ता अपरा 'शुद्धिरुच्यते। इह सर्वसत्त्वानां हृदयान्तर्गतं ज्ञानम्, तच्चानाहतध्वनिः सदा नादलक्षणः। ततस्तन्मण्डलं मध्ये कृत्वा हृदयचक्रम् / ततः कण्ठनाभ्योर्मध्येऽर्धमानं गहीत्वा चित्तमण्डलं भगवतः सार्धद्वादशमात्रात्मकं कुर्यात् / कण्ठान्नाभ्यन्तं पञ्चविंशन्मात्रात्मकं वाङ्मण्डलं कुर्यात् / ऊर्णास्थानाद् मेदान्तं पञ्चाशन्मात्रात्मकं कायमण्डलं कुर्यादिति / ततश्चतुःकायद्वाराणि विण्मूत्रशुक्रउष्णीषरन्ध्राणि, वाङ्मण्डलद्वाराणि ललनारसनाऽवधूतीशङ्खिनीति कण्ठान्नाभिसीम्नः / चित्तमण्डलद्वाराणि जाग्रत्स्वप्नसुषुप्तितुर्यावस्थालक्षणानीति। एवं द्वादशद्वारात्मकं कायवाक्चित्त'मण्डलं परमादिबुद्धं षोडशचन्द्रकला विभागिकम् / / यथा बाह्ये तथा देहे "यथा देहे तथापरे। . त्रिविधं मण्डलं ज्ञात्वा आचार्यो मण्डलं लिखेत् // इति सर्वत्र नियमः। द्वयब्ध्येकादिना "वृत्तमुक्तम्, 'पूर्वसूत्रपातेन सामिति // 53-55 // - इदानीं 3मण्डलदेवतामन्त्र"चिह्नान्युच्यन्ते ॐकारज्ञानजाते जिनवरकमले चन्द्रसूर्यासनोर्ध्वमाद्यैः काद्यैः सशून्यस्त्रिभुवनजननी मातृका स्थापनीया / शून्येऽकारे विसर्गे स्वररहितपरे कायवाक्चित्तवज्रं संभूतं मन्त्रयोनि परमसुखकरं ज्ञानवज्रं चतुर्थम् // 56 // 20 25 1. भो. Ro Mig (कोष्ठ)। 2. ग. समस्तं / 3. ग. च. विभागिकं / 4. च. 'सप्त' नास्ति। 5. ग. स्थानानि निय० / 6. भो. dKvil hKhor Gvi sNam Pa ( मण्डलाकार) / 7. ग. च. भो. विशुद्धि / 8. छ. कुर्यादिति / 9. च. विभागलक्षणम / 10. भो. 'यथा देहे' नास्ति / 11. भो. Tshigs Su bCad Pa gNis (वृत्तद्वयम्) / 12. क. ख. छ. पूर्वं / 13. ग. मण्डले / 14. भो. Phyag rGya ( मुद्रा) इत्यधिकम् /