________________ 5 . 10 पटले, 35 फूलो.] रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः कुरु कुरु स्वाहा / गन्धादिकं दत्त्वा रजोभाण्डानि पश्चिमभूम्यां निवेशयेदिति रजोऽधिवासनविधिः। ततो वज्राधिवासनम् / तत्र मन्त्रपदानि-ॐ हूँ ' क्रोधवज्र सर्वसत्त्वकरुणात्मक सर्वधर्मैकसुखस्वभाव सर्वधर्मान् वज्रसुखस्वभावान् कुरु कुरु स्वाहा। गन्धादिकं दत्त्वा दक्षिणे निवेशयेदिति वज्राधिवासना(न)विधिः / ततो वज्रघण्टाधिवासना(न) करोति / तत्र मन्त्रपदानि-ॐ हो व[182a]बघण्टे सर्वधर्मकप्रज्ञाध्वनिस्वभावे सर्वाकार सर्वधर्मप्रबोधनि सर्वधर्मान्निःस्वभावान् प्रबोधय प्रबौधय स्वाहा / गन्धादिकं दत्त्वा उत्तरभूभ्यां निवेशयेदिति वज्रघण्टाधिवासन विधिः। इति भूम्यादिसंग्रहविधिः। ततः शिष्याधिवासनम् / आदौ मण्डलाध्येषणकाले, मध्ये भूम्यादिसंग्रहे, अन्ते मण्डलप्रवेशकाले च सर्वत्र मण्डलं कृत्वा दन्तकाष्ठं दत्त्वा ततो रक्षां करोति / तत्रैष विधिः-स्नातस्य धौतवस्त्रस्य शान्त्यादिकर्मानुरूपेण तस्यामेव भूम्यां मण्डलं कृत्वा उदुम्बरं दन्तकाष्ठं द्वादशाङ्गुलमन्यक्षीरवृक्ष वा शिरसि पुष्पमालाबन्धं गन्धादिभिरर्चयित्वा पूर्वाभिमुखस्य देयमनेन मन्त्रण-ॐ आः हूँ होः हं क्षः वज्रदन्तकाष्ठ चतुर्विमोक्ष मुखविशुद्धस्वभाव कायवाक्चित्तज्ञानमुख"दन्तादिमलं विशोधय विशोधय स्वाहा। इति दन्तकाष्ठं दत्त्वा "अन्त्याधिवासने ऊर्ध्वतः प्रक्षिप्तं मण्डले पतितं दन्तकाष्ठं लक्षयेत् / यत्र पतति येन शिरसा तत्रस्थं कर्मप्रसरादिकं तस्य सिद्धयति / इति दन्तकाष्ठविधिः। ततो मण्डलभूम्यां शिष्यं प्रवेश्य शिरसि कण्ठे हृदि नाभौ उष्णीषे गुह्ये ॐ आः १हूँ होः" हं क्षः षटकुलैन्यासं कृत्वा वज्रसत्त्वं प्रचोदयेद् एभिर्मन्त्रपदैः-ॐ अ आ अं अः वज्रसत्त्व महासुखवज्र कालचक्र शिष्यस्याभिमुखो भव सन्तुष्टो भव वरदो भव: कायवाक्चित्ताधिष्ठानं कुरु कुरु स्वाहा। इति शिष्याधि"वासनविधिः। ततः शिष्यं विसर्जयित्वा मण्डलमध्ये विजयकलशम्, पूर्वे वज्रसूत्रम्, पश्चिमे वज्ररजोभाण्डानि, दक्षिणे वज्रम, उत्तरे घण्टां, द्वारविभागं ज्ञात्वाददात्याचार्यः। ततस्तान 'पञ्चस्थानेष दत्त्वा दक्षिणे शुभाशुभनिमित्तार्थं शय्याधिवासनं२० करोत्यनेन मन्त्रेण-ॐ "होः / वज्रकमलदलगर्भे शय्ये वज्रसुखमहानिद्रां करोमि यथा तथागतेन कृ[182b]ता हः हः * स्वाहा। इति शय्याधिवासनम् / तत आचार्यः पश्चिमशिरःपूर्वपादः शयनं करोति / 15 1379 20 25 1. भो. हुँ / 2 क. ख. वज्रासनविधिः। 3. ग. च. भो. होः / 4. च. भो. सर्वाकारे / 5. क. ख. च. छ. वेन / 6. च. वासना / 7. च. 'च' नास्ति / 8. भो.हुँ / 9. क. ख. छ. हो / 10-11. क. सुख / 12. च. अग्न्या / 13. ग. तेन / 14. ग. च. भूमौ / 15. ख. ग. च. भो. हूं। 16. क. ख. छ. हो। 17. ग. च. वासना / 18. भो. 'ज्ञात्वा' नास्ति / 19. ग. च. पञ्चसु / 20. च. वासनां / 21. क. ख. छ. हो।