________________ विमलप्रभायां [अभिषेकतत्र निमित्तं पश्यति / भावनाबलेन वा स्वप्नेन वा यदि पश्येद् बुद्धबोधिसत्त्वदेवीगणान् वीणादिचिह्नहस्तान्, तदा शोभनम्। अथ वज्र'डाकिनीः कतिकपाल हस्ताः क्रोधेन्द्रान् वा मारविघ्नविनायकादीनां विनाशं कुर्वतो रक्षाचक्रान्तं यावत्तथापि शोभनम् / अथ किञ्चिन्न पश्यति तदा मध्यमम् / अथ मारकायिकान् क्षुत्पिपासार्तरुक्षशुष्ककायान् 'कर्तिकपालहस्तान् साधुजनापकाररतान् पश्येदाचार्यः शिष्यो वा, तदा दुनिमित्तं भवति / तं दृष्ट्वा वज्राचार्यः शय्यां विहाय मण्डलपूर्वभूम्यां पूर्वोक्तरक्षाचक्र ध्यात्वा पुनस्तेभ्यो महोदारवलिं दद्यात् पूर्वोक्तविधिना। पुनरपरशोधनमन्त्रः-ॐ कें वनडाकिनि वज्रधात्वीश्वरि गगनस्वभावसर्वद्रव्यविशोधनि सर्वद्रव्याणि विशोधय है - फट् / इति बलि विशोधनमन्त्रः / विघ्नोपशमने ततो बुद्धानावाहयेत् आयान्तु बुद्धाः पितरः समातरः सपुत्रभृत्यैः सह मित्रबान्धवैः। वृताः समग्राः सुरदेवता"गणैः संतोष्यमाणा वरवज्रसत्त्वम् / इत्यनया गाथया तथागतादीन् स्वकाये स्वस्वधातौ विन्यसेदिति बुद्धावाहनविधिः। ___ ततो वज्रडाकिनीमाकर्षयेत् / तत्र मन्त्रपदानि-ॐ ह हा हि ही वज्रभैरव आकर्षय आवर्षय प्रवेशय प्रवेशय बन्धय बन्धय तोषय तोषय जः हूँ हो वज्रडाकिनीनां हृदयं हुँ हूँ मैं फ्रें3 फट, इत्याकर्षणमन्त्रः। ततो वज्रमुद्रया वज्रडाकिनीनां बलिं गन्धपुष्पधूपप्रदीपाक्षत"सहितां पूर्वोक्तविधिना दत्त्वा बाह्यश्मशानभूमौ खानपानं कुर्वतीश्चिन्तयेदिति डाकिन्याकर्षणमन्त्रः। ततो मारविघ्नोपद्रवशमनाय रक्षाचक्रपूर्वकं वज्रभैरवयोगमालम्ब्य साधनविधिना षडङ्गादिमन्त्रन्यासं कृत्वा ज्ञानसत्त्वमेकीकृत्य समय[ 183a ]सत्त्वेन सह साधनोक्त विधिना वक्ष्यमाणं षड्विंशतिभुजं द्वादशलोचनं षट्स्कन्धं चतुर्मुखं त्रिग्रीवं द्विचरणं वक्ष्यमाणायुधधरं विचिन्त्य पूर्वोक्तानि बीजाक्षराणि.स्वशरीरे विन्यस्य ततोऽभिषेकं प्रार्थयेदिति / तत्र मन्त्रपदानि-ॐ हँ हाँ हिँ ही हूँ हैं,हुँ हूँ हैं लु हैं ल आ ई ऋऊ ल वज्रडाकिन्यो" वज्रामृतघटैरभिषिञ्चन्तु मां स्वाहा / ॐ अं . * उँ लें सर्वबुद्धा" वजमुकुटं" मम पञ्चबुद्धात्मकं बन्धयन्तु हुँ हूँ फट् / ॐ अ आ में अः ह हा हं हः में होः सर्वपारमिता मम वजपढें बन्धयन्तु हुँ हूँ फट् / ॐ "हूँ होः विज्ञानज्ञानस्वभावे करुणाप्रज्ञात्मके वज्रवज्रघण्टे सव्येतरकरयोर्मम वज्रसत्त्वः सप्रज्ञो ददातु हुँ हूँ फट् / ॐ अ आ ए ऐ अर् आर् ओ ओ अल् आल् अं अः सर्वबोधिसत्त्वाः सभार्याः सर्वदा 20 25 १.क. ख छ. डाकिनी। 2. ग. च. भो. कतिका / 3. क. ख. छ. भो. हस्तां / 4 ग. 'वा' नास्ति / 5 छ. रक्षान्तं / 6. ग. च. कपालकतिका / 7. क. ख. ग. डाकिनी. छ. डाकि / 8. क. ०श्वरी, ग. ०श्वर / 9. भो. हुं, छ. हूँ फट / 10. ग. भो. 'वि' नास्ति / 11. भो. Lha Mo ( देवती)। 12. क. ख. छ. हो। 13. क. ख. छ. 3 / 14. भो. hBras Bu ( फल ) इत्यधिकम् / 15. क. ख. छ. डाकिन्या / 16. भो. बुद्ध / 17. भो. मुकुट / 18. भो. हुं। 19. क. ख. छ: हो /