________________ विमलप्रभायां [अभिषेक'ततोऽपरविघ्नविनायकादीन् वज्राङ्कुशेनाकृष्य वज्रपाशेन बन्धयित्वा वज्रकोलक्रोधराजं नाभेरधः शूलाकारं दशस्थानेषु दुष्टोपरि निमग्नं भावयेत् पञ्चवर्णत एभिर्मन्त्रपदैः- ॐ आःहूँ होः हं क्षः हूँ हूँ हूँ फट् फट् फट् वज्रकीलक कायवाक्चित्तज्ञानाधिपते षण्मुख षड्भुज षट्चरण सर्वविघ्नविनायकादिदुष्टानां कायवाक्चित्तज्ञानानि कीलय कीलय 'हूँ हूँ फट् फट् / ततो वज्रमुद्गरमन्त्रः-ॐ ल्लः वज्रमुद्गर मारादीनां शिरसि कण्ठे हृदये नाभौ गुह्येऽन्ते वज्रकीलकानाकोटय आकोटय क्षं क्षां क्षि क्षी क्ष्लु क्ष्ल हूँ हूँ हूँ फट् फट् फट् / इति कीलनविधिः। ततः कीलकानां 'रक्षार्थ दशक्रोधराजान् पूर्वोक्तविधिना न्यसेदिति / ततो वामदक्षिणपादतले "हूँ हूँ विन्यस्य पञ्चशूकवज्रमुद्रया पादतलं (181b) संस्पृश्य वज्रपदैर्मण्डलमध्ये भूम्यां चक्रमेत् कालचक्रमूर्त्या आलीढप्रत्यालीढपदैः समपदैश्च / पूर्वे यं याः पादतले 'दत्त्वा खङ्गमुद्रया स्पृष्ट्वा मण्डलपदैः चक्रमेत् / दक्षिणे. रं राः दत्त्वा रत्नमुद्रया स्पृष्ट्वा ललितपदैश्चक्रमेत् / पश्चिमे लं लाः दत्त्वा चक्रमुद्रया स्पृष्ट्वा वज्रासनेनाधि तिष्ठेत् विशाखपदैर्वा / उत्तरे वं वाः दत्त्वा पद्ममुद्रया स्पृष्ट्वा पद्मासनेनाधिष्ठाय ताण्डवपदैश्चक्रमे दिति। ततो वज्रगन्धादिभिर्मन्त्रपदैर्गन्धादिद्रव्यैर्मण्डलभूमिमर्चयित्वा वज्रभूमिमावाहयेत् पूर्वोक्तविधिना / अत्र मन्त्रपदानि-ॐ लां 'आ हूँ वज्रभूमि तिष्ठ मा चल "हूँ हूँ फट् वज्रधर आज्ञापयति स्वाहा। ततो भूयोऽर्धादिकं कारयेन्मन्त्री। इति "भूम्यधिवासनविधिः। . ततो वज्रकलशानधिवासयेत् / तत्र मन्त्रपदानि-ॐ हं हां हिं हीं हुं ह हुँ हूँ हलं हल वज्रपद्मामृतघट सुविशुद्धधर्मधातुस्वभाव सर्वधर्मान् सुविशुद्धधर्मधातुस्वभावान् कुरु कुरु स्वाहा / मण्डलमध्ये विजयकलशं स्थापयेद् गन्धादिकं दत्त्वेति घटादिवासनम् / ____ ततो वज्रसूत्राधिवासनं कुर्यात् / तत्र मन्त्रपदानि-ॐ आं ई ल वज्रसूत्र सर्वधर्मकस्वभाव सर्वधर्मान् एकाकारस्वभावान् कुरु कुरु स्वाहा। गन्धादीन् दत्त्वा पूर्वभूम्यां निवेशयेत् / सूत्राधिवासनविधिः / ततो वज्ररजोऽधिवासनं करोति / अत्र मन्त्रपदानि-ॐ अं इं ऋ उं लं सुविशुद्ध पञ्चस्कन्धस्वभाव पञ्चस्कन्धान सुविशुद्धधर्मान् 15 20 1. ग. अतो / 2. भो. हुँ / 3. क. 'फट्' नास्ति / 4. भो. कील / 5. भो. ज्ञानानं / 6. भो. हुँ हूँ / 7. ग. ल, छ., लु, भो. ल्ल. / 8. ग. च. रक्षणार्थ / 9. च. तलेन / 10. ग. च. भो. हुँ हूं। 11. च. तलं खड्ग। 12. क. ख. छ. तिष्ठयेद् / 13. भो. bCag Par Bya (चक्रमेत्) / 14. भो. मेद् वा। 15. ग. च. भो. आः, ख. आं। 16. भो. हुँ हूँ। 17. क. ख. छ. भूम्या / 18. क. ख. तन्त्र, भो. hDir (अत्र)। 19. भो. Lhag Par gNas Pahi Cho Gaho (धिवासनविधिः)। 20. च. ततः / 21. सार्व० ऋ / 22. सार्व० लं / 23. भो. De La ( तत्र ) / 24. क. ग. च. छ. 'पञ्चस्कन्धस्वभाव' नास्ति /