SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ___10 पटले, 35 श्लो.] रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः हङ्कारनियमः। इति देवताहङ्कारमुत्पाद्य ततो भूमिपरिग्रहं शिष्यसंग्रहं कुर्यादिति / पूर्व देशग्राम क्षेत्राधिपतेर्बलिं दद्याद् विशोधयित्वा मन्त्रपदैरेभिः-ॐ ॐ वचन्द्र सर्वधर्मसुविशुद्धस्वभाव सर्वधर्म विशोधय स्वाहा, ॐ आः वज्रसूर्यसर्वधर्मप्रबोधक सर्वधर्मान् प्रबोधय स्वाहा, ॐ हूँ वज्रानल सर्वधर्मप्रदीपक सर्वधर्मान् प्रदीपय स्वाहा, ॐ हो सर्वधर्मवजामृतकर सर्वधर्मान् वज्रामृतं कुरु कुरु स्वाहा। एभिर्मन्त्रपदैर्यथाक्रमेण वामहस्तेन शोधयेत् / दक्षिणहस्तेन "बोधयेत् / संस्पृश्या'ऽञ्जल्या पिहित्वा प्रदीपयेत्। वज्रगरुडमुद्रया वज्रामृतं कृत्वा त्रैलोक्यविजयमुद्रया "देशाधिपस्यावाहनं कुर्यात् / श्वानमुद्रया ग्रामस्थानाधिपानाम्, क्रोधराजानां पञ्चशूकमुद्रया, कृत्स्नानां कर्तृमुद्रया, देवतानां खड्गमुद्रया, ग्रहाणां रत्नमुद्रया, नागानां पद्ममुद्रया, प्रेतानां चक्रमुद्रया आवाहनं कृत्वां 'तत ओं आःहूं अमुक आगच्छ आगच्छ शीघ्रमिदं बलिं गृह्ण गृह्ण भुक्त्वा पीत्वा तृप्तिं कृत्वा सर्वसत्त्वानां शान्तिचित्तं कृत्वाऽपरस्थानं गच्छ गच्छ स्वाहा / भूमिपरिग्रहकाले, अपरकाले स्वस्थानं गच्छेति वक्तव्यम् / एवं सर्वेषां प्रत्येकबलि दिग्विभागे पूर्वोक्तविधिना संप्रेषयेदिति बलिविधिः। ततः स्व हृदयचन्द्रमण्डले लांकारपरिणतं पीतचक्रं ध्यायात्। तत्परिणतां पृथ्वी त्रिमुखां षड्भुजां [18!a] दक्षिणे चक्रदण्डवज्रधराम्, वामे शङ्खशृङ्खलावज्रघण्टाधरां पीतवर्णां पीतवस्त्रां पीतरत्नाभरणां ध्यायात् / ततः समयसत्त्वं ज्ञानसत्त्वेनैकीकृत्य वक्ष्यमाणक्रमेण ततो बाह्यपृथिवीदेवतामावाहयेदनेन मन्त्रपदेन-ॐ लाँ आः" वसुन्धरि सर्वबुद्धजननि सर्वसत्त्वोपकारिणि वज्रसत्त्व आज्ञापयति शीघ्रमागच्छ आगच्छ इदं गन्धं पुष्पं धूपं दीपं नैवेद्यं फलाक्षतं ददामि तव त्वमेव गृह्ण गृह्णमण्डलार्थ मम स्थानं दद सर्वसत्त्वानां शान्ति पुष्टिं कृत्वा शुभचित्तेन इदं स्थानं त्यक्त्वाऽ परं स्थानं गच्छ * गच्छ स्वाहा / इति पृथिवीविसर्जनविधिः। .. ततो मारनिर्घाटन( तनं ) कुर्यात् पूर्वोक्तविधिना" एभिर्मन्त्रपदैः-ॐ आः हैं" होः"हं क्षः ह्राः ह्राः ह्राः ह्राः र र र र वज्रानलसर्वावरणधर्मप्रलयस्वभाव सर्वमारकायिकविघ्नविनायकादीनां दशदिग्गतानां कायवाक्चित्तानि दह दह पच पच भस्मीकुरु भस्मीकुरु हूँ हूँ फट् / इति मारनिद्वाटन(तिन)विधिः / 15 20 25 1. च. भो. प्रामाधि / 2. भो. धर्मान् / 3. भो. हुँः। 4. क. 'हो' नास्ति, ग. च. होः / 5. भो. rGyas Par Byaho ( वर्धयेत् ) / 6. ग. श्याऽधोऽ / 7. भो. Yul Gyi bDag Po (देशाधिपत्या)। 8. ग. च. भो. ततः / 9. च. हृदये / 10. ग. च. ततः / 11. छ. हूं, भो. हुँ इत्यधिकम् / 12. च. अर्घ इत्यधिकम् / 13. च. पर / 14. ग. च. भो. समाधिना / 15. भो. है। १६.छ. हो / 17. भो. हुँ हूँ। 18. ग. फट् फट् /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy