________________ .34 विमलप्रभायां [ अभिषेकमानकविरागपद्मान्तक उत्तरदिशि रक्षां कुरु कुरु स्वाहा। ॐ लँ वज्रक्रोधराज 'स्तम्भक यमान्तक पश्चिमदिशि रक्षां कुरु कुरु स्वाहा। ततो भाववशाद विदिक्ष दीर्घवर्णा ग्राह्याः संहारक्रमेणेति / [ 180 a] ॐ लाः वज्रक्रोधराज महाबल वायव्यां दिशि रक्षां कुरु कुरु स्वाहा / ॐ वाः वनक्रोधराजाचल ईशानदिशि रक्षां कुरु कुरु स्वाहा / ॐ राः वज्रक्रोधराज टक्कि नैर्ऋत्यां दिशि रक्षां कुरु कुरु स्वाहा / ॐ याः / वचक्रोधराज नीलदण्डाग्नेय्यां दिशि रक्षां कुरु कुरु स्वाहा / ॐ हाः वनक्रोधराज सुम्भाधोदिशि रक्षां कुरु कुरु स्वाहा / एवमेभिर्मन्त्रपदैस्तन्त्रोक्तसाधनविधिना क्रोधराजान् ध्यायान्मन्त्री / ततः सर्वतथागतरक्षाचक्रस्वभावात्मकोऽहमित्युच्चार्याहङ्कारमुद्वहेदिति रक्षाचक्रनियमः। ततः स्वहृदये पंकारपरिणतं विश्वपद्मं तदुपरि कणिकायां अंकारपरिणतं चन्द्रमण्डलं तदुपरि देवताधिमुक्तिवशाद् ज्ञानबीजं तस्माद्वज्रादित्यवत् सर्वतथागतप्रबोधमानान् रश्मीन् गगनधातौ स्फारयेत् / ततस्तान् परावृत्य स्वहृदि ज्ञानबीजे प्रवेश्य आकाशधातौ मण्डलाकारस्फारितानां बुद्धानां "पूजार्थं गन्धमालाद्यान् स्फारयेदिति स्वस्वज्ञानबीजादिति। ॐ च् छ् ज् झ् ञ 'वज्रगन्धे गन्धार्चनं कुरु कुरु स्वाहा / ॐ च् छ् ज् झ् ञा वज्रमाले वज्रमालार्चनं कुरु कुरु स्वाहा / ॐ ट् ठ् ड् ढ् ण वज्रधूपे धूपार्चनं कुरु कुरु स्वाहा / ॐ ट् ठ् ड् ढ् णा वज्रप्रदीपे प्रदीपार्चनं कुरु कुरु स्वाहा / ॐ प् फ् ब् भ् म वज्रामृते नैवेद्ये पूजार्चनं कुरु कुरु स्वाहा / ॐ प् फ् ब् भ् मा वज्रामृते अक्षतफलार्चनं कुरु कुरु स्वाहा / ॐ त् थ् द् ध् न वज्रलास्ये वस्त्राभरणपूजां कुरु कुरु स्वाहा / ॐ त् थ् द् ध् ना वज्रहास्ये घण्टादर्शपूजां कुरु कुरु स्वाहा / ॐ क् ख ग् घ् ङ वज्रवाद्ये" वाद्यपूजां कुरु कुरु स्वाहा / ॐ क् ख् ग् घ् ङा वज्रनृत्ये" "नृत्यपूजां कुरु कुरु स्वाहा। ॐ स्प्ष श्क वज्रगीते गीतपूजां कुरु कुरु स्वाहा / ॐ स प ष श का वज्रकामे सर्वबुद्धबोधिसत्त्वानां क्रोधादीनां वज"मयीं सुरतपूजां कुरु कुरु स्वाहा / इत्येभिदेवीमन्त्रपदैमनोमयीं पूजां कृत्वा बुद्धादीनामेवं वन्दना पूजनेति। ततस्तन्त्रोक्तविधिना पापदेशनां पुण्यानुमोदनां रत्नत्रयशरण[180b]गमनमात्मभावनिर्यातनं बोधिचित्तोत्पादनं कुर्यादिति सप्तविधपूजाविधिः। ततः शून्यतालम्बनं मण्डलराजाग्री कर्मराजाग्री बिन्दुयोगः सूक्ष्मयोगो "मन्त्रिणा कर्तव्य इति / ततस्तन्त्राधिमुक्तिवशादिष्टदेवताहङ्कारं कारयेत् / ॐ सर्वतथागताधिपतिवनसत्त्वोऽहं दुर्दान्तदमक" हूं" हूं फट् स्वाहा / अनेनात्मानमधितिष्ठेत्", इति देवता 15 20 ___25 T378 1. ग. सुम्भक / 2. ग. 'वशाद "ग्राह्याः' नास्ति / 3. क ख. ग. च. छ. स्तम्भाधो। 4. छ. हृदयं / 5. ग. पूजनार्थ / 6 क. ख. छ. गन्धवज्र / 7. ग. च. भो. 'वच नास्ति / 8. ग, दीपे। ९.ग. नैवेद्य, च. भो. वज्रनैवेद्यार्चनं / 10. ग. च. भो. वज्राक्षतेऽक्षत / 11. च. वजवाद्य / 12. क. ख छ. नृत्यं / 13. ग. वजनृत्य / 14. क. ख. छ. 'मयों' नास्ति / 15. ग. च. भो. कर्तव्यो मन्त्रिणेति / 16. ग. च. कः। 17. भो हैं हैं। 18. भो. Byin Gyis brLab Par Bya sTe ( अधिष्ठयेत् ) /