________________ 5 15 पटले, 39 श्लो. ] रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः मर्दयेत् / इति करप्रक्षालनमन्त्रः। ततः पूर्वोक्तक्रमेण अकारादिलकारान्ताः पञ्चदश स्वरा:-अ इ ऋ उ ल / अ ए अर् ओ अल् / ह य र व ला' इति वामकराङ्गलीपर्वसन्धिषु न्यस्तव्याः कनिष्ठामूलपर्वादिषु / दक्षिणकरे वृद्धाङ्गष्ठो+पर्वादारभ्य कनिष्ठाधस्तृतीयं पर्व यावद् लाकारादयो देयाः-ला वा रा या हा / आल औ आर् ऐ आ ल ऊ ऋ ई आ इति पृथिव्यादिक्रमेण / ततो हस्तसंपुटे हूंकारं नीलवर्णं चन्द्रार्कयोमध्ये ध्यात्वा ततस्तैश्चन्द्रार्कराहुबीजैः पञ्चशूकवज्रमुद्रां बन्धयेद् वक्ष्यमाणाम् / "तया उष्णीषादारभ्य "पादाङ्गलोनखपर्यन्तमात्मानं संस्पर्शयेत् / तत इदं मन्त्रमुच्चारयेत्-ॐ आःहूं होः ह क्षः कायवाक्चित्तज्ञानाधिपते वज्रकाय मम कायवाक्चित्तज्ञानवज्र वज्रकायस्वभावं कुरु कुरु स्वाहा। ततोऽहङ्कारं ॐ सर्वतथागतवज्रकायस्वभावात्मकोऽहमिति कायवाक्चित्तज्ञानविशुद्धिः। ततः षटकुलन्यासं कृत्वा पश्चात् षडङ्गन्यासं करोति / कराभ्यां संपुटं कृत्वा अङ्गुष्ठयुग्मेन हृदये ॐ हल हृदयाय नमः। शिरसि ॐ हूं शिरसे स्वाहा। शिखायां ॐ ह ऋ शिखायै वौषट् / सर्वाङ्गेॐ ह्रीं कवचाय हुं। उभयहस्ताभ्यां सर्वाङ्गं संस्पर्शयेत् / ॐ ह्रां नेत्राय वषट् नेत्रे। ॐ ह्राः [ 179b ] अस्त्राय फट / सर्वदिक्षु तर्जन्यङ्गुष्ठछोटिकया शुभे वामया अशुभे दक्षिणया न्यसेदस्त्रम् / "ततः ॐ सर्वतथागतहृदयशिरःशिखाकवचनेत्रास्त्रवज्रषडङ्गस्वभावात्मकोऽहमिति षडङ्गन्यासविधिः। . असौ षडङ्गः पृथिव्यादिना येन पुनः संध्याभाषान्तरेण हृदयं नाभिः, एवं हृदयकण्ठललाटोष्णीषाद्यं शिर आदिना गृह्यते। ततः पूर्वोक्तरक्षाचक्रं करोत्यनेन मन्त्रेण ॐ आः हूँ 'रः वज्रचन्द्रसूर्यराहुकालाग्नयः कार्यवाक्चित्तज्ञानवज्रप्राकारान् कुरु कुरु स्वाहा, इति प्राकारमन्त्रः / ॐ हूँ विश्वकाय"वज्र वज्रकूटागारं कुरु कुरु स्वाहा, इति कूटागारमन्त्रः। ॐ हाँ याँ रॉ वाँ लाँ वज्राकाशवायुतेजउदकपृथिवीवज्रस्वभावपञ्चधातवो वज्रमण्डलानि कुरु कुरु स्वाहेति", अधोमण्डलन्यासमन्त्रः / उपायतन्त्रे एभिरेव कूटागारादिकं करोति / अत्र मेरुमूनि मण्डलं न भवति / ॐ "पं विश्ववज्रपद्मं कुरु कुरु स्वाहा, इति पद्ममन्त्रः। ॐ रः वज्रसूर्य वज्रसूर्यासनं कुरु कुरु स्वाहा, इति सूर्यासनमन्त्रः / ततस्तदुपरि तन्त्राधिमुक्त्याऽऽत्मानं क्रोधेन्द्रं ध्यायात् / ॐ हूँ क्रोधेन्द्रोऽहं क्रोधानामाज्ञादायकः स्वाहा / ततः क्रोधानाज्ञापयेत् स्वस्वमन्त्रपदैः। ॐ हैं वज्रक्रोधराज महोष्णीषोर्ध्वदिशि रक्षां कुरु कुरु स्वाहा / ॐ यं वज्रक्रोधराजातिबल सर्वविघ्नान्तक पूर्वदिशि रक्षां कुरु कुरु स्वाहा / ॐ Rs वज्रक्रोधराज जम्भक" दुष्टप्रज्ञान्तक दक्षिणदिशि रक्षां कुरु कुरु स्वाहा / ॐ - वज्रक्रोधराज 1. भो. ल / 2. क. ख छ. हैं / 3. च. ततश्च ते / 4. क. तथा / 5. क. ख. ग. छ. पादान्तमङ्गली / 6. छ. हो / 7. भो. DelTar ( तथा)। ८.क. ख. फ्रें। 9. क.ख. ऋ / 10. ग. च. भो. 'सं' नास्ति / 11. क. ख छ. 'ततः' नास्ति / 12-13. भो. हुँ / 14. छ काये वज्रकूटा / 15. क. ख. छ. स्वाहा / 16. 'पं' नास्ति कुत्रापि, गृ भो.। 17. भो. Padme (पञ)। 18. छ. जम्भुक। 20 25 30