________________ विमलप्रभायां [ अभिषेकप्रज्ञाभोंर्हदब्जे सरविशशिपुटे स्वस्ववज्राङ्कुशेन बुद्धानाकृष्य देवी रजसि समरसा न्यस्तसूत्रे च भाव्याः // 35 // 10 T 377 आद्यैरिति ( 178b ) आकाराद्यैः स्वरैः, काद्यैरिति ककाराद्यैर्व्यजनैश्चन्द्रसूर्या- . त्मकैः / सवप्रेरिति हूँकारसहितैः। स्वहृदयकमले चन्द्रसूर्याग्निमूनिं वक्ष्यमाणक्रमेण ध्यात्वा श्रीकालचक्र शशधरमदनाक्रान्तमालीढपादं प्रशाभोंहुंदब्जे सरविशशिपुटे स्वस्व वज्राङ्कुशेन बुद्धानाकृष्य देवोरिति / रजसि समरसा बुद्धा भाव्या रजआकारण, न्यस्तसूत्रे च देव्यो भाव्याः सूत्राकारेणेति नियमः / इदानी पूर्वभूम्यावाहनाद्यमारभ्य इदं समाधि यावन्मन्त्रविधिरुच्यते। देवतासमाधिर्मारनि ग्रहं मन्त्रं कालचक्रभगवतोऽङ्गन्यासः कायवाक्चित्तशोधनं चोच्यते / . . इह प्रथमं साधनापटले वक्ष्यमाणक्रमेण मुखविशुद्धि तथागतानां पूजां पापदेशनां पुण्यानुमोदनां त्रिशरणगमनमात्मभावनिर्यातनं बोधिचित्तोत्पादनं मार्गाश्रयणं कृत्वा ततः शून्यतालम्बनं कृत्वा देवतानिष्पादनं प्रति कायवाक्चित्तज्ञानविशोधकानि मन्त्रपदानि भवन्ति। ॐ आःहूं हो हं क्षः प्रज्ञोपायात्मककायवाक्चित्तज्ञानाधिपते मम कायवाक्चित्तज्ञानवज्र वज्रामृतस्वभावं कुरु कुरु स्कन्धधात्वायतनं निःस्वभावं स्वाहेति / इदं मन्त्रमुच्चार्य उष्णीषोपरि वंकारपरिणतं वज्रचन्द्रमण्डलं षोडशकलापूर्ण ध्यायान्मन्त्री। ततस्तेनोष्णीषमारभ्य पादनखान्तं यावत् स्वशरीरं सर्पकञ्चुकवत् त्यजेत् त्रीन् वारान् / ततः शशाङ्कवपुरात्मानं ध्यायात्, शान्तौ पुष्टौ च वश्याकृष्टौ सूर्यमण्डलेन रक्तवर्ण ध्यायात्, एवं रेफपरिणतेन / मारणोच्चाटने यंकारपरिणतेन "कृष्णराहुमण्डलेन / स्तम्भनमोहने लंकारपरिणतेन पीतपुच्छराहुमण्डलेन पीतेनेति / प्रत्युज्जीवने हंकारपरिणतेनाकाशमण्डलेन विश्ववर्णेन हरितेन हरितवर्णनात्मानं ध्यायान्मन्त्रीति / ततो मन्त्रमिदमुच्चा[179a]रयेत् / ॐ स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोऽहमित्युच्चार्य ततो ललाटे ॐ शुक्लममिताभम्, कण्ठे आः रक्तं रत्नसंभवम्, हृदये हं कृष्णममोघसिद्धिम्, नाभौ होः पीतं वैरोचनम्, उष्णीषे हं श्याममक्षोभ्यम्, गुह्ये क्षः नीलं वज्रसत्त्वं न्यसेद् वक्ष्यमाणभुजवर्णायुधधरमिति वज्रवक्त्रशुद्धिः षटकुलन्यासविधिनियमः। 25 इदानीं करशुद्धिन्यासमन्त्रमुच्यते / ॐ ह्रः 'सर्वास्त्रराज मारक्लेशान्त कर वज्रतीक्ष्ण दुःखच्छेद मम करं विशोधय स्वाहा। अनेन मन्त्रेण परस्परं करेण करं 1. ग. च. निग्रह / 2. ग. च. 'कृत्वा' नास्ति / 3. भो. Ram Yig ( रंकार ) / 4. भो. sGra gCan Gyi dKyil hKhor Gyis bDag Po ( राहुमण्डलाधिपेन ) / 5. क. वं ह्रः। 6. क. सर्वास्तु, ग. च. सर्वासु / 7. भो. शान्तक /