________________ 5 पटले, 33-35 श्लो.] रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः इदानीं दुनिमित्तलक्षणमुच्यतेछिन्ने सूत्रे गुरोश्च क्षतिरपि परिघालङ्घने पुत्रकाणां वातोद्भूतं रजश्चेत् प्रकटयति भयं राज्यभङ्गश्च राष्ट्रे / तदृष्ट्वा दुनिमित्तं पुनरपि च विभोर्मन्त्रजापं प्रकुर्याद् भूयो लब्धे निमित्त समविषमपदैः सूत्रपातो विधेयः // 33 // इह छिन्ने सूत्रे सति गुरोः क्षतिर्भवति / अपि च, परिघालङ्घने पुत्रकाणां क्षतिः। वातोधूतं रजश्चेत् / इह मण्डलिकावातेनोद्धृतं रजो यदा भवति, तदा गुर्वादीनां भयं प्रकटयति, राजभङ्गच राष्ट्र प्रकटयतीति नियमः / तदृष्ट्वा [178a] दुनिमित्तं पुनरपि च विभोर्मन्त्रजापं प्रकुर्याद् आचार्यः / यावन्निमित्तं पुनर्भवति / ततो भूयो लब्धे निमित्ते समविषमपदैः सूत्रपातो विधेयः / इहाचार्यस्य वामे पर्यवं दक्षिण पादतलं भूमिनिषण्णं समपदेन / एवं व्यतिक्रमेण विषमपदेन सूत्रपातो विधेय इति नियमः // 33 // इदानीं परिघ उच्यतेप्रज्ञोपायाङ्गमध्ये भवति सपरिघो मण्डले वर्जनीयो भूमौ संग्रामकाले शिखिपवनगतः सैन्यमध्ये फणीव। . संग्रामे सैन्यनाशो भवति भुवितले त्वङ्गयुद्धे प्रहारः तस्मायुद्धे च सेके त्वतिबलपरिघो मन्त्रिणा वेदितव्यः // 34 // 10 15 20 . इह प्रज्ञोपायाङ्गमध्ये प्रभवति परिधो मण्डले वर्जनीय इति / इह प्रज्ञानं दक्षिणपश्चिमम्, उपायानं पूर्वोत्तरम् / अनयोर्मध्ये परिघो मण्डले वर्जनीयः / एवं भूमौ संग्रामकाले शिखिपवनगत इति / आग्नेय्यां वायव्यां दिशि यावद्गतयोर्द्वयोः सैन्ययोमध्ये फणीव दण्डाकारः। संग्रामे सैन्यनाशो भवति, भुवितले परिघलङ्घनात् / ' अङ्गयुद्धे प्रहारो भवति मण्डले कलहविग्रहो भवति / तस्माद्धे च सेके त्वतिबलपरिघो मन्त्रिणा बेदितव्य इति नियमः // 34 // इदानीमिष्टदेवतालम्बनमुच्यते संक्षेपत:- आद्यैः काद्यैः सवज्रः स्वहृदयकमले चन्द्रसूर्याग्निमूर्ध्नि ध्यात्वा श्रीकालचक्रं शशधरमदनाक्रान्तमालीढपादम् / 1. च. भयकरं / 2. ख. च. छ. भङ्गश्च / 3. भो. 'नियमः' नास्ति / 4. च. दक्षिणे / 5. क. ख. छ. अङ्क। 25