________________ विमलप्रभायां [अभिषेकदेवि त्वं साक्षिभूता सुरपतिसहिते मारभङ्गे जिनस्य तस्मात्त्वं पूजनीया सुरवरनमिते गृह्ण गृह्णार्घकं मे इति स्तुत्वा प्रार्थयेत् ताम्। भग्नं मारस्य सैन्यं प्रबलमपि यथा बोधिहेतोजिनेन, शिष्याणां सेकहेतोरहमपि च तथा मारनाशं करोमि त्वया साक्षिभूतया इति / ततो बुद्धादीनां वक्ष्यमाणपूजां कृत्वा अर्घादिकं दत्त्वा 5. प्रार्थयेत् // 26 // अत्र प्रार्थना [176a]ये बुद्धाः सर्वदिक्षु व्यपगतकलुषा बोधिसत्त्वाः सभार्यास्ते मां वै पालयन्तु परमकरुणया मण्डले सेकहेतोः / तानेवाध्येष्य सर्वान् दृढखदिरमयैः कीलकैः कीलयेत् क्ष्मां दिक्क्रोधान् दिग्विभागे प्रहरणसहितान् विन्यसेद्रक्षणार्थम् // 27 // ये बुद्धाः सर्वदिक्षु व्यपगतकलुषा बोधिसत्त्वा सभार्यास्ते मां वै पालयन्त परमकरणया मण्डले सेकहेतोः। 'तानेवाध्येष्य सर्वान् दृढखदिरमयैः कोलकैः कीलयेत क्ष्माम्, वक्ष्यमाणक्रमेणेत्यध्येषणानियमः। तथा उक्तबोधान् दशदिग्विभागे विन्यसेत प्रहरणसहितान् भूमिकीलनरक्षणार्थमिति नियमः / / 27 // इदानी भूमिखानि निमित्तमुच्यतेशल्यं साङ्गारशृङ्गं मरणभयकरं भूमिगर्भे निविष्टं तस्मिन् स्थाने विनाशो भवति गुणवशाच्छोधनीयं हि तस्मात् / रत्नं शङ्खश्च काचो विषयसुखकरो मण्डलार्थं हि भूमी प्रासादार्थं गृहार्थं प्रकटितनियतश्चात्र यागादिहेतोः // 28 // इह भूमिग शल्यादिकं निविष्टं शुभकर्मणि विघ्नकरं भवति / तस्माच्छोधनीयं शल्यं मनुष्यास्थि साङ्गारमङ्गारं वा शृङ्गसाधारणं मरणभयकरं शुभकर्मणि तस्मिन् स्थाने विनाशो भवति गणवशात शोधनीयं हि तस्मात / अथ रत्नं वा शडाच काचो वा दृश्यते, तदा सुखकरो भवति मण्डलार्थ हि भूमौ / तथा प्रासादार्थ गहाथ प्रकटितनियतश्चात्र यागादिहेतोरिति स्थानशुद्धिनियमः।।२८ // [176b] 20 T376 1. भो. De Dag Kun La gSol Ba bTab Nas ( तानध्येष्य ) / 2. च. भो. खनन, Sa brKo Bahi / 3. मु. विजय / 4. ग. साङ्गारं वा शृङ्गं वा, च. साङ्गारं शृङ्गं /