________________ 10 पटले, 29-30 श्लो.] रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः इदानीं भूमिशोधनार्थं दिनमुच्यतेपूर्णायां भूमिशुद्धिग्रहणमपि तथा संग्रहः पुत्रकाणां द्वादश्यां सूत्रपातो मदनमनुदिने श्रीरजःपात एव / सेकाद्यं पूर्णिमायां ददति वरगुरुरिभङ्गे दिने च तस्मिन् रात्री प्रतिष्ठा भवति जिनकुले नान्यरात्रौ प्रतिष्ठा // 29 // पूर्णायामित्यादि / इह प्रतिमासे षट् पूर्णाः, तद्यथा-पञ्चम्यौ द्वे, दशम्यौ द्वे, पञ्चदशम्यौ द्वे / मण्डलालेखनाय कालावधिं ज्ञात्वा 'शुभाशुभकर्म ज्ञात्वा इह शुभकर्मणि शुक्लपञ्चम्यां दशम्यां पञ्चदश्यां विष्टिं वर्जयित्वा भूमि शोधयेत् / ततः पूर्वोक्तमृत्तिकया पूरयेदिति / अशुभकर्मणि कृष्णपञ्चम्यां दशम्यां अमावस्यायां नष्टचन्द्रे भूमि शोधयेत्, पूर्वोक्तमृत्तिकया पूरयेदिति। ततो ग्रहणमपि पूर्णायामर्चनादिकम् / पुत्रकाणां शिष्याणां संग्रहः पूर्णिमायाम्। ततो मण्डलालेखनकालं ज्ञात्वा द्वादश्यां सूत्रपातः कर्तव्यः। मदनमदिने, त्रयोदश्यां चतुर्दश्यां श्रीरजःपातः। सेकाचं वक्ष्यमाणं पूर्णिमायां ददतीत्यागमपाठः / वरगुरुरिभङ्गे दिने च / चकारादपरायां पूर्णिमायां ददातोति नियमः। एवं प्रतिमादीनां तस्मिन्नेव पूर्णिमारात्रौ प्रतिष्ठा भवति / जिनकुले नान्यरात्री प्रतिष्ठा इति तिथिनियमः // 29 // अन्ये नक्तं प्रतिष्ठा भवति नरपते शुद्धलग्नेग्रंहाथैजीवे शक्रेऽस्तमेते नहि भवति तदा वै विवाहः प्रतिष्ठा / 'ज्ञात्वाऽऽचार्यः समस्तं क्षितितनिलये लोकलोकोत्तरं च * * यद्यत्कार्यं करोति प्रभवति हि शुभं तत्तदेवं समस्तम् // 30 // [177 a] अथान्ये नक्तं प्रतिष्ठा भवति नरपते शुद्धलग्नर्ग्रहाद्यः। इह जीवे बहस्पतौ शुक्र अस्तङ्गते सति सूर्यमण्डले प्रविष्टे / नहि भवति तदा तस्मिन् मासे वै एकान्तं विवाहः प्रतिष्ठा / एवं पुष्ये चैत्रे बृहस्पतिक्षेत्रे सूर्ये प्रविष्टे पूर्णिमायां पुनर्भवति राज्ञा 'पुष्याभिषेकत इति, चैत्रे बुद्धाभिषेकत इति नियमः। एवं ज्ञात्वा आचार्यः समस्तं क्षितितलनिलये लोकलोकोत्तरं च यद्यत्कार्य करोति शान्त्यादिकं प्रभवति फलदं तत्तदेवं समस्तमिति तिथिनियमः / एवं क्रूरकर्माशुभदिननियमः // 30 // 20 1. छ. 'शुभा' नास्ति, च. शुभा शुभं / 2. क. 'दशम्यां' नास्ति / 3. ख. ग. च. वास्या। 4. भो. Sa gZun (भूमिग्रहण)। 5. भो. Yam Yig (यंकार) / 6. भो. तिथि नास्ति / 7. ग. प्रतिष्ठे। 8. ख. पुष्पाभिषेक / 9. क. ख. छ. यत्कार्य।