SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 27 5 10 पटले, 24-26 श्लो.] रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः कानन्ततक्षकमहापद्मभ्यः सपरिवारेभ्य इदं बलिं गन्धं पुष्पं धूपं दीपम् अक्षतं ददामहे, ते चागत्य सपरिवाराः शीघ्रमिदं बलिं गृह्णन्तु खादन्तु पिबन्तु जः हूँ वं होः संतृप्ताः सर्वसत्त्वानां शान्ति पुष्टिं रक्षावरणगुप्तिं कुर्वन्तु हुँ हूँ फट् वज्रधर आज्ञापयति स्वाहा / ततो भूतबलिमन्त्रपदानि-ॐ आःहूँ होः वेताडविकृतमुखश्वकाकशूकरगृध्रव्याघ्रोलूकजम्बूकगरुडमुखेभ्यः सपरिवारेभ्य इदं बलिं गन्धं पुष्पं धूपं दीपम् अक्षतं ददामहे, ते चागत्य सपरिवाराः शीघ्रमिदं गृह्णन्तु खादन्तु पिबन्तु जः हूँ वँ होः संतृप्ताः सर्वसत्त्वानां शान्ति पुष्टि रक्षावरणगुप्ति कुर्वन्तु हुँ हूँ फट् वज्रधर आज्ञापयति स्वाहा। इति भूतबलिमन्त्रः। . एवं प्रत्येकबलिं वक्ष्यमाणक्रमेण शोधयित्वा 'बोधयित्वा प्रदीपयित्वाअमृतीकृत्वा(त्य) क्रोधादी[175b]नां मन्त्री ददाति / एवं सर्वत्र मण्डलविधौ चतुःसन्ध्याबलिं दत्त्वा आचार्यस्ततो विसर्जनं करोति / विसर्जनकाले गुह्यचक्रे 'हाँकारे क्रोधचक्र "प्रवेशयेत् / उष्णीषे "अंकारे शून्यकृत्स्नादिचक्रम्, ललाटे 'इकारे दिक्पालचक्रम्, कण्ठे ऋकारे ग्रहचक्रम्, हृदये 'उकारे नागचक्रम्, नाभौ ऋकारे भूतचक्र प्रवेशयेदिति विसर्जनविधि निवर्त्य ततो भूमिपरिग्रहं करोति मन्त्री वक्ष्यमाणक्रमेणेति नियमः // 24 // . इदानीं पृथिव्यावाहनं वक्ष्यमाणसमाधिना भूमिशुद्धिनिमित्तमुच्यते. भूमौ दिक्षु त्रिवज्रः प्रथममपि बलि क्षेत्रपालाय दत्त्वा पश्चाद्वज्रश्चतुभिर्दिशि विदिशि गतं निर्दहेन्मारवृन्दम् / भूमिं चावाहयित्वा ससलिलकुसुमैरर्घमस्यै प्रदाय पश्चाच्छुद्धि यथेष्टां कुरु भुविनिलये प्रार्थयित्वा तु तां वै // 25 // इह पृथ्वीसमाधिना भूमि चावाहयित्वा जः हूँ व होः एभिर्मन्त्रपदैः पूर्वोक्तार्घपात्रे ससलिलकुसुमैरर्घगन्धादिसहितैरर्घमस्यै प्रदाय पश्चाच्छुद्धि यथेष्टां कुरु भुवि निलये प्रार्थयित्वा तु तां वै" इत्यनुप्रार्थना // 25 // देवि त्वं साक्षिभूता सुरपतिसहिते मारभङ्गे जिनस्य तस्मात्त्वं पूजनीया सुरवरनमिते गृह्ण गृह्णार्घकं मे। भग्नं मारस्य सैन्यं प्रबलमपि यथा बोधिहेतोजिनेन शिष्याणां सेकहेतोरहमपि च तथा मारनाशं करोमि // 26 // 1. क. ख. 'बोधयित्वा' नास्ति, भो. rGyas Pa ( वर्धयित्वा ) / 2. छ. नास्ति / 3. ग. होंकारे, च. होंकारेण / 4. ग. विसर्जयेत्, च. प्रवेशयति / 5. च. अंकारेण / 6. च. इकारेण / 7. च. उकारेण / 8. च. ऋकारेण / 9. भो. ल / 10. ग. इत्यत्र / 20 25
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy