________________ 18 T372 विमलप्रभायां [अभिषेक 'वामोऽपि सव्योरुमूनि तिर्यगुत्तानेनेति वज्रासनम् / दैत्यमिति दैत्यासनं मारणे, अङ्ककार'कूर्मपादवदिति दैत्यासनम् / उत्कटं चेति उच्चाटने विद्वेषे च उत्कटं भवति। भूम्यां द्वौ पादौ समौ गुल्फो फिच्चकमूललग्नौ ऊवं गतं जानुद्वयमूरुद्वयं चेत्युत्कटम् / पर्यङ्काध द्विभेदमिति। इह वश्ये वामपादः पर्यवद्दक्षिण 'उत्कटवत् किञ्चिद्दक्षिणे नम्र इति। आकृष्टौ द्वितीयो भेदो दक्षिणः पर्यङ्कवद् वाम उत्कटवत् किञ्चिद्वामे नम्र इति पर्याधं द्विभेदम् / गुदगतचरणमिति / इह मोहने वामचरणं गुदगतं चरणोपरि गुदो निषण्णः, दक्षिणमुत्कटवदिति / स्तम्भने दक्षिणं गुदगतं चरणोपरि गुदो निषण्णो वाममु[170b]त्कटवत् / इत्यष्टविधासनभेदनियमः // 19 // इदानीं मन्त्रजापार्थं "शान्त्यादीन्यक्षसूत्राण्युच्यन्तेस्फाटिक्यैर्मोक्तिकैर्वा नरखरदशनैर्वाऽस्थिभिः पुत्रजीवैः . . पद्माख्येशाक्षरिष्टेः सुगतकुलवशान्मन्त्रजापेऽक्षसूत्रम् / सौगन्धैः श्वेतपुष्पैः सकटुककषणैरर्चनां रक्तपीतैः शीतो विण्मांसधूपो मधुरुधिरयुतोऽप्युप्रधूपः कषायः // 20 // स्फाटिक्यैरित्यादिना / इह शान्तौ 'स्फाटिक्यमक्षसूत्रम्, पुष्टौ मुक्ताफलम्, मारणे नरदन्तकृतं, उच्चाटने खरदन्तकृतं वा अस्थिभिः कृतम्, वश्ये पुत्रजीवाक्षसूत्रम् / आकृष्टौ पद्माक्षसूत्रम्, अथ रक्तचन्दन बीजः कृतम्। मोहने रिष्टाक्षसूत्रम्, स्तम्भने ईशाक्षः, ईशाक्ष इति रुद्राक्षरक्षसूत्रमित्यक्षसूत्रनियमः। सुगतकुलवशादिति वक्ष्यमाणे वक्तव्यम् / इदानीमर्चनार्थं "शान्त्यादिपुष्पाण्युच्यन्ते-सौगन्धेरित्यादिना। इह शान्तौ पुष्टौ च सुगन्धपुष्पैः श्वेतैर्देवतादीनामर्चनम्, मारणे उच्चाटने विद्वेषे च सकटुकै: कृष्ण : सकण्टकैरिति / वश्ये आकृष्टौ रक्तैः, मोहने स्तम्भने पीतैरिति पुष्पार्चननियमः / इदानीं धूपा उच्यन्ते-शीत इत्यादिना / शान्तिपुष्टयोः शीतो धूपः, शीतागुरुसिलककर्परैधपो मधशर्करासहितः शीतो धूप इत्युच्यते शीतद्रव्यैः / तथा मारणे उच्चाटने विड"मांस"धूपो मधुरुधिरयुत इति / वश्ये आकृष्टावुप्रधूप इति / गुग्गुल 17 20 1. क. ग. 'वामो मूर्धिन' नास्ति / 2. क. क्रमपात, छ कूर्मपात / 3. भो. Tsog Pu ( उत्कुटक)। 4. च. स्फिच्चकमूला / 5-6 क. ख. छ. उत्कटा, भो. उत्कुट / 7. च. शान्तिकाद्यक्ष, ग. शान्तिकादीन्य / 8. क. ख. स्फाटिक / 9. ख. 'उच्चाटने खरदन्तकृतं' इत्यंशो नास्ति / 10. च. चन्दन / 11. च. शान्त्यादौ / 12. च. तानाम / 13. ग. कटुकैः। 14. क. शीतद्रव्ये / 15. क. ग. मांसो। 16. ग. धूपो मधुरो।