________________ 17 पटले,.१९ श्लो.] वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः इदानीं सूत्रलक्षणमुच्यतेसूत्रं हस्ताष्टकं स्याद् भवति करयवैकेन वृत्तं त्रिवृत्तं आचार्याङ्गुष्ठकेन त्रिविधपथगतं सूत्रमेकं न चान्यत् / पर्यङ्कः शान्तिकादो क्रमपरिरचितं वज्रदैत्योत्कटं च पर्याधं द्विभेदं गुदगतचरणं चासनं कर्मभेदैः // 19 // 5 10 15 सूत्रं हस्ताष्टकमित्यादिना / इह कन्याकर्तितसूत्रेत्रिगुणात्मकैरनेकैः सूत्रं वर्तयित्वा ततस्त्रिवृत्तं कारयेद् वज्राचार्याङ्गुष्ठयवप्रमाणेन / तदेवाष्टहस्तमिति मण्डलस्य द्विगुणं चतुर्गुणं वा षोडशहस्तं यावत्, आचार्यहस्तेन सूत्रमेकं कर्तव्यम् / न चान्यद् लक्षणं मण्डले / मण्डलं सदा स्वात्मविभागेन एकहस्त[170a]मारभ्य यावत् सहस्रहस्तं तावद्भवति, तेन सूत्रनियमो मण्डलनियमश्चाचार्यहस्तेन यत्र तत्र 'द्विगुणं सूत्रं मण्डलादिति / तत्रादिबुद्धे चित्तमण्डलं द्वादशहस्तं प्रकुर्यादिति नियमाच्चतुर्विंशतिहस्तं सूत्रम्। एवं वाङ्मण्डलं षोडशहस्तम्, कायमण्डलं विंशतिहस्तमिति नियमः सूत्रद्विगुणताः / न पुनर्हस्तसहस्रमण्डले द्विहस्तसहस्रसूत्रेण सूत्रपातोऽभिधेयोऽत्यद्भुतत्वादिति। ननु तन्त्रान्तरे-3"द्वाविंशतिभागिकं सूत्रं वृत्तेन दीर्पण मण्डलाद् द्विगुणं कथम् ? वृत्तेन यवमानं दीर्घत्वेनाष्टहस्तकम्" इति कस्यचिद्वचनं भविष्यति ? तस्मादुच्यते-इह यदि सर्वस्मिन् मण्डले "द्वाविंशतिभागेन वृत्तं सूत्रम्, तदा सहस्रहस्तमण्डले चक्राष्टभागिकं द्वारं पञ्चविंशत्यधिकशतहस्तं भविष्यति / तस्य विंशतिभागेन षडङ्गुलाधिकषड्हस्तं वृत्तेन सूत्रं भवति। तेन सूत्रेण द्विसहस्रहस्तेन कोऽसावाचार्यः सूत्रपातं करिष्यति मण्डलभूम्याम् / तस्मादिदं वचनं "सामान्यमण्डले हस्तमात्रादौ, न तदूचं सूत्रवृत्त नियमो भगवत इति / सामान्येन कायो नराणां चतुर्हस्तः। तेन कायाद् द्विगुणमष्टहस्तम्, त्रिविधपथगतं कायवाञ्चित्तनाडीगतमेकलोलीभूतम् , तेन सहस्रहस्तपर्यन्तं सूत्रयेन्मण्डलं गर्भचक्रारेभ्यः पुनः पुनः सूत्रस्थाने सूत्रपातेनेति सूत्रविधिनियमः। इदानीं 'शान्त्यादिकर्मसाधनार्थमा सनान्युच्यन्ते-पर्यत इत्यादिना। इह शान्तिकादो क्रमेणासनानि भवन्ति / तत्र शान्तौ पर्य" इति। वामजानूपरि दक्षिणपादो गत उत्तानक इति पर्यङ्कः / पुष्टौ वज्रासनम् / १२सव्यपादो वामोरुमूनि 1. क. ख. छ. द्विगुण / 2. क. ख. छ. कुर्या० / 3-4. क. ख. ग. द्वारवि० / 5. भो. 'सामान्य' नास्ति / ६.च. वृत्ति / 7. ग. च. भो. भूतं सूत्रम् / 8. क. ख. छ. र्यन्त / 9. ग. शान्तिकादि / 10. क. आसनमुच्यते / 11. च. मिति / 12. क. ख. ग. सव्यपादं, च. सव्यः पादो। 20 25