________________ विमलप्रभायां [भभिषेक 10 स्फ[T]टिक्याद्यघंपात्रे वसुदलकमलं द्वादशाङ्गुष्ठकं च .. दण्डाग्रेऽजल्यपात्रं भवति च चुलुकं चाहुती होमकार्ये // 17 // इह शान्तौ स्फटिकपात्रमर्घदानार्थं शरावाकृतिः, 'कचोलाकृतीत्यर्थः। सर्व द्वादशाङ्गलं सकर्णिकादलात्मकम् / एवं स्फटिकाद्यपात्रे वसुवलकमलं द्वावशाङ्गुष्ठकं चेति / अत्र चतुरङ्गला कर्णिका, चतुरङ्गुलान्य'ष्टदलानि, एवं द्वादशाङ्गुलम् / तथा पुष्ट्यादिके रौप्यकपालायससुवर्णताम्रदारुमृण्मयपात्रेषु विधिरिति / तथा आहुती होमार्थ पात्री श्रुवकमुच्यते / इह दण्डाने हस्तमात्रदण्डस्याने अञ्जल्याकारपात्रं चतुरस्त्रं 'चाङ्गलैकोच्छितम्, समतले पद्म पद्मपत्राग्रमयम्, ओष्ठाभ्यन्तरपावं बाह्ये पञ्चशूक"वज्रम्,मध्यशूके च्छिद्रं घृतधाराया निर्गमार्थं मूत्रशुक्रधारानिर्गमवत् / आहुती कार्ये आहुती पात्रीति हस्तमात्रदण्डादिति मूलतन्त्रे। हृदयकमलाद्वज्रपर्यन्तमिति नियमः। त[ 169b ]था दण्डाग्ने होमकायें चुलुकं भवति, ऊर्णास्थानाद् हृदयं यावत्, मुखतो वा तिर्यग् विभाग' इति तत्रैव षडङ गुलं पद्मं करतल मानेनेति द्रव्यहोम श्रुवायां दण्डपृष्ठे वज्रचिह्नमिति होमपात्र नियमः // 17 // इदानीं शान्त्यादौ देवतामूर्तिरुच्यतेशान्तः क्रूरः सरागो भवति कुलवशाद् देवता स्तब्धमूर्तिः एवं कर्मद्वये स्यात् प्रकटितनियतो मण्डले चाधिदैवः / पञ्चाकारो जिनेन्द्रस्त्रिविधभवगतः स्कन्धधात्वादिभेदैः पञ्चाकारं हि तस्मादपि भवति रजोमण्डले देवतानाम् // 18 // इह कुण्डे अग्निदेवतामण्डले नायकश्च शान्तिपुष्टौ शान्तः शुक्लवर्णो भवति, मारणोच्चाटनाद्ये क्रूरः कृष्णवर्णः, वश्याकृष्टौ सरागो रक्तवर्णः, मोहनस्तम्भनाये स्तब्धः पीतवर्ण इति देवतावर्णः शान्तिकादौ / सर्वकर्मणि हरित इतीषद्धसितरागमूर्तिरिति" देवतानियमः। इदानी रजोविशुद्धिरुच्यते-पञ्चाकार इत्यादिना / इह जिनेन्द्रो वज्रसत्त्वः पञ्चाकारो हि यस्मात् पञ्चाकारज्ञानरश्मिस्फर निरावरणभेदेन, तस्मादपि पञ्चाकारं रजोमण्डले" देवतानां भवतीति रजोनियमः॥१८॥ 25 १.म. कचोकला। 2. भो. 'अष्ट' नास्ति / 3. ख आहति / 4. ग. च. 'च' नास्ति / 5. ग. वज्रमध्य / 6. च. विभागत / 7 क. ख च. छ. मानेति / 8. च. जुवा / 9. ग. होमद्रव्य / 10. च. काये / 11. च. 'इति' नास्ति / 12. ग. च. इत्यादि / 13. क. ख. ग. च. छ. त्रिविधभगवतः, गृहीतपाठस्तु भोटानुसारी / 14. क. मण्डल /