________________ पटले, 15-16 श्लो. ] वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः दूर्वा शस्यं च मांसं सविषमपि तथा राजिका रक्तपुष्पं . विल्वं निर्माल्यमालासुकनककुसुमान्येव पञ्चादिकेषु // 15 // मोहने उन्मत्तजाः, स्तम्भने विल्वजा इति, अर्द्धहस्ताः सर्वे द्वादशाङ्गुलाः / कनिष्ठाङ्गुलीप्रमाणेनाङ्गुष्ठं यावत् / तदुपरि ऊनाधिका न ग्राह्या इति समिधनियमः / इदानी होमद्रव्याण्युच्यन्ते-क्षीरेत्यादि / इह शान्तिके गोक्षीरेण दूर्वया होमः, पुष्टी घृतेन पञ्चशस्यैः, मारणे रक्तेन मांसविषाभ्यां सह, उच्चाटने विद्वेषे नरवसया राजिकालवणाभ्यां सह, वश्य स्वेदेन रक्तकरवीरादिपुष्पैः सह, आकृष्टौ मूत्रेण विल्वपत्रेण तस्य फलशस्येन वा सह, स्तम्भने श्लेष्मणा निर्माल्यमालया सह, मोहने मद्येन 'धुत्तूरकपुष्पैः सह, इति शान्तिकाद्येषु होमद्रव्यनियमः // 15 // इदानीमाचार्यस्यासनदिग्विभाग उच्यतेयाम्ये नैर्ऋत्यकोणे सवरुणपवने यक्षरुद्रेन्द्रवह्नौ . आचार्यस्यासनं वै भवति नरपते शान्तिकर्मादिके च / रङ्ग कर्मद्वये स्यादपि विभुकमले श्वेतकृष्णाकंपीतं बाह्ये बुद्धप्रभेदैः सुरयमवरुणेषूत्तरे रङ्गभूमिः / / 16 / / [ 169a] इह शान्तौ याम्ये आसनं कर्तव्यम्, वक्ष्यमाणम्, पुष्टौ नैऋत्यकोणे, मारणे वरुणे, उच्चाटने विद्वेषे वायव्ये, वश्ये यक्षे, आकृष्टावीशाने, मोहने पूर्वे, स्तम्भने अग्निकोणे इति होमकुण्डासननियमः शान्तिकर्मादिके। इदानीं रजोविधिरुच्यते-इह शान्तिकादौ कर्मद्वये कुण्डे वा मण्डले वा मध्ये रंजःपातो भवति / शान्तिपुष्टयोः श्वेतं रजः, मारणोच्चाटनयोः कृष्णं रजः, वश्याकृष्टौ रक्तम्, मोहनस्तम्भनयोः पीतम्, सर्वकर्मणि हरितं श्वेतः कृष्णो रक्तो वा पीतो वा हरितसहित इति / एवं कुण्डे वा मण्डले वा बाह्ये पूर्वे दक्षिण पश्चिमे उत्तरे बुद्धभेदेन भूम्यां रजःपातस्तन्त्रोक्तविधिना भगवतो वा वक्त्र वर्णभेदेनेति रङ्ग पातनियमः // 16 // कुण्डे वा रङ्गभूमिर्भवति कुलवशाद् रङ्गपातश्च भूमिन्यासाद्यं प्रोक्षणाद्यं स्वहृदयकुलिशोत्सर्जनं देवतानाम् / तथा वक्ष्यमाणक्रमेण न्यासाद्यं प्रोक्षणाचं स्वहृदयकुलिशेनोत्सर्जनं देवता- नामाचार्येण कर्तव्यमिति नियमः / इदानीमघपात्रलक्षणमुच्यते 15 25 1. च. तदूर्ध्व / 2. छ. भो. धतूरक / 3. क. ख. 'वा' नास्ति / 4, भो. 'वर्ण" नास्ति / 5. भो. रजः।