________________ 10 विमलप्रभायां [अभिषेकषडङ्गलास्याः स्थूलोष्ठा अङ्गुष्ठ'द्वयेनेति कलशनियमः। सर्वकर्मणि शान्त्यादिवश्यादिकर्मण्युक्ता ग्राह्या इति नियमः। इदानीं शान्तिकादिवेलोच्यते-पूर्वाहेत्यादिना / इह प्रतिदिनं पूर्वाह्लादष्टयामाः प्रहराः, तेषु पूर्वाह्णप्रहरे शान्तिकम, द्वितीये पौष्टिकम्, तृतीये मारणम्, चतुर्थे उच्चाटनम्, पञ्चमे वश्यम्, षष्ठे आकर्षणम्, सप्तमे मोहनम्, अष्टमे स्तम्भनं कुर्यादिति शान्तिकादिप्रहराः स्युः / एवं तत्रार्द्धयामैरिति पूर्वाह्लादर्द्धप्रहरे शान्तिकम् / अपरार्द्ध पौष्टिकम्, एवं सर्वत्रापि। तथा रात्रौ पूर्वार्द्धप्रहरे शान्तिकम्, अपराः पौष्टिकमपि कर्माणि कुर्यान्मन्त्रीति। यदि वक्ष्यमाणासनं बद्ध्वा प्रहरमेकं होमं कर्तु न शक्नोति, तदार्द्धप्रहरमेकं होमं कृत्वा साधयेदित्युभयकथनम् / अपरः कालविशेषेण देवी पूजासाधननियमः पञ्चमपटले वक्ष्यमाणे वक्तव्य इति // 13 // ... . इदानीं शान्तिपुष्टयोः क्रूरवेलालग्नप्रतिषेध उच्यतेमध्याह्न चार्द्धरात्रं दिननिशिसमये शान्तिके वर्जनीयं लग्नं क्रूरग्रहस्थं मरणभयकरं तद्वदेवं प्रसिद्धम् / सक्षीराः शान्तिपुष्टयोः शरशतसमिधो मारणे मानुषास्थिविद्वेषे काकपिच्छान्यपि च खदिरजाः किंशुकाकृष्टिवश्ये // 14 // इह प्रतिदिने मध्याह्न चार्द्धरात्रं च शान्तिके पुष्टिकार्येऽपि वर्जनीयम् / तथोदितलग्नं क्रूरग्रहस्थं मङ्गल[168b]शनिकालाग्निग्रहसहितं वर्जितम्, यतो मरणभयकरम् / अथ मारणोच्चाटने तु योजनीयं तदेवेति नियमः। इदानीं शान्तिकादिषु होमसमिध उच्यन्ते-सक्षीरेत्यादिना। इह शान्तौ पुष्टी सक्षीरा समिधः, शरशतेति पञ्चशतसंख्याः, क्षीरवृक्षाणामिति उदुम्बराश्वत्थन्यग्रोधपर्कटीमधवक्षाणामिति / मारणे मानुषास्थीनि घटितानि कनिष्ठाङ्गलीसंस्थानानीति पञ्चशतानि तथा विद्वेषोच्चाटने काकपिच्छानि पञ्चशतानि, एवं वश्ये खविरजाः, आकृष्टौ पलाशजाः॥ 14 // विल्वोन्मत्तार्धहस्ताः शरशतगणना' स्तम्भने मोहने च . क्षीराज्यासृग्वसास्वेदकुलिशसलिलश्लेष्ममद्यादिहोमे / 20 T371 1. च. अङ्गुल / 2. ग. रेषु / 3. ग. अपर, छ. अपरं / 4. भो. Lha mChod Pa ( देवपूजा ) / 5. ग. च. 'च' नास्ति /