________________ पटले, 12-13 श्लो.] वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः एवं स्फाटिक्यकुम्भा वररजतमयाः श्रीकपालायसाश्च ताम्राख्या हेमकुम्भाः प्रकटितनियता दारुजा मृण्मयाश्च / / 12 // इह शान्तिके न्यग्रोधकीलकाः, दशदिक्कीलनार्थं पुष्टौ अश्वत्थाः, मारणेऽस्थिमयाः, उच्चाटने आयसाः, वश्ये 'खदिरजाः, आकृष्टौ चूतजाः, मोहनेऽजाः, स्तम्भने विल्वजा इति कीलक नियमः, सार्वमिके उदुम्बरजाः। इदानीं कलशा उच्यन्ते-शान्तिके स्फाटिककलशाः, पुष्टौ रौप्याः, मारणे मानुषकपालाः, उच्चाटने विद्वषे आयसाः, वश्ये सौवर्णाः, आकृष्टौ ताम्राः, स्तम्भने मृण्मयाः, मोहने दारुजा दशकलशा इति // 12 // अथ शान्तिपुष्टयर्थं घटलक्षणमुच्यतेवृत्ता द्वयष्टाङ्गुलोक्ता द्विगुणितदशकेनोच्छ्रिता द्वयङ्गुलोष्ठाः षड्नीवाष्टाङ्गुलास्याः शशधरधवलाः शान्तिपुष्टयोर्न चान्थे / पूर्वाह्लादष्टयामाः प्रतिदिनसमये शान्तिपुष्टयादिके स्युरेवं तत्रार्द्धयामैदिन निशिसमये चाष्टकर्म प्रकुर्यात् // 13 // इह कलशगर्भ"वृत्तेन 'द्वष्टाङ्गुला उक्ताः, षोडशाङ्गुला उक्ताः। द्विगुणितदशकेनोच्छ्रिता इत्यधः कलशगर्भात् मुखौष्ठान्ता विंशत्यङ्गुला उच्छ्रयेणेति / द्वयङ्गुलोष्ठा इति द्वयङ्गुलावोष्टौ लम्बमानौ येषां ते द्वयङ्गुलोष्ठा मुखादवधेः षडङ्गुलग्रीवाः अष्टाङ्गुलास्याः। ओष्ठान्तादोष्ठान्तमुखमष्टाङ्गुलम्, अष्ठाङ्गुलं भागत्रयं कृत्वा भागद्वयेन कण्ठरन्धं भागैकेनौष्ठद्वयायामः, ते च शशधरधवलाः शान्तिपुष्टयोनं चान्ये घटाः स्युरिति / स्फाटि[168a]क रौप्यकलशानामभावे मृण्मया अकालमूलकलशाः शालिपिष्टेन चन्दनेन वा लिप्य धवला: कर्तव्याः। तथा मूलतन्त्रेऽपि भगवतोक्तम्-मारणे नरकपालानि श्मशानाङ्गारचूर्णेन नरवसया लिप्य कृष्णानि कारयेद् इति / उच्चाटने विद्वेषे दीर्घग्रीवा अष्टाङ्गुलवक्त्राः कृष्णाङ्गा वृत्तेन द्वादशाङ्गुलाः, उच्छयेण चतुविंशत्यङ्गुलाः, अङ्गुलैकौष्ठाः षडङ्गुलास्या इति, वश्याकर्षणे यथा शिल्पिना घटिता लोकव्यवहारेणेति, स्तम्भने खर्वा वृत्तोच्छयेण तुल्याः षोडशाङ्गुलाश्चतुरङ्गुलग्रीवाः 1. च. खादिराः। 2. ग. कीलन / 3. ग. च. मनुष्य / 4. भो. Dan dBye Ba (विभेदे च ) / 5. ख. ग. च. छ. गर्भे, च. वृते / 6. 7. ख. छ. 'द्वयष्टाङ्गला." द्वघङ्गलोष्ठा इति' नास्ति / 8. म. स्फाटिक्य / 9. भो. hKhyog Po ( वक्राः), च. ला वक्राः / 10. भो. Lus Phra Ba ( कृशाङ्गा)।