________________ विमलप्रभायां [अभिषेकषट्कोणं चाष्टकोणं भवति कुलवशात् गर्भचिह्नं च तेषां पद्मं चक्रं च कर्ती त्वसिरिषुरिति वज्राङ्कुशः शृङ्खलाऽहिः॥१०॥ कुण्डं प्रामादिक्षु ऐशान्यादिषु यथाक्रमेण शान्तौ वर्तुलं कुण्डम्, पुष्टौ चतुरस्रम्, मारणे धनुराकारम् विद्वेषे पञ्चकोणम्, वश्ये सप्तकोणम्', आकृष्टौ त्रिकोणम्, मोहने षट्कोणम्, स्तम्भने चाष्टकोणमिति। एषां लक्षणं च वक्ष्यमाणे होमविधौ विस्तरेण वक्तव्यमिति। इदानी कुण्डचिह्नमुच्यते-इह वृत्तकुण्ड'कमलकणिकायां चिह्न पाम्, चतुरस्र चक्रम्, धनुराकारे कर्मों, पञ्चकोणे खङ्गः, सप्तकोणे बाणः, त्रिकोणे वज्राङ्कुशः, षट्कोणे मोहने सर्पः, अष्टकोणे शृङ्खलेति'। अत्र कुण्डद्वये चिह्नविपर्यासश्छन्दोवशादिति चिह्ननियमः // 10 // एषां प्रमाणमाह एकद्वयर्द्धकहस्तं खयुगखनयनं खाग्नि खत्वंगुलं स्यादर्धाङ्गा षड्विभागाद्वरुणरविविभागेन खानिश्च वेदी। ओष्ठाश्चिह्नावली स्यादुपरि कुलवशाद्वेदिकायाः समन्ता द्वेदीबाह्येऽब्जपत्राण्यपि कुरु नृपते शान्तिपुष्टयोनं चान्ये // 11 // एकेत्यादि। एकहस्तं वृत्तम्, द्विहस्तं चतुरस्रम्, अर्द्धहस्तं धनुराकारम्, वृत्तप्रमाणं पञ्चकोणम्, चत्वारिंशदङ्गुलं सप्तकोणम्। विंशत्यङ्गलं त्रिकोणम्, षट्कोणं त्रिंशदङ्गुलम्, पष्टयङ्गुलमष्टकोणम्, कुण्डार्द्धमाना खानिः, कुण्डे षड्विभागिका वेदिः, कुण्डद्वादशभागिकमोष्ठम्, चिह्नावली च वेद्याः समम, तद्वाह्येऽब्जपत्राणि शान्तिपुष्टयोः, शेषकर्मणि वेदोबाह्येऽन्यदन्यद्वक्ष्यते / वज्र वा चिह्नं सर्वकर्मणि कुण्डमध्ये ज्ञातव्यम् // 11 // (167b) इदानी भूमिकीलनार्थ कीलका उच्यन्तेवज्रं वा सर्वकर्मस्वपि भवति मही, कीलकं चाष्टभेदैन्यग्रोधाश्वत्थकास्थीन्ययसखदिरजं चूतविल्वाकंजं च / 20 1. भो. dBan la zur gSum Pa Dan dGug Pa La Zur bDun Pa ( वश्ये ... त्रिकोणं आकृष्टौ सप्तकोणम् ) / 2. ख. ग. च.छ. भो. 'च' नास्ति / 3. क. ख. छ. मण्डल / 4. भो. mDah Dan Zur bDun Pa La rDo rJe ICags Kyu Dan (त्रिकोणे बाण :, सप्तकोणे वज्राङ्कशः)। 5. ग. शृङ्खलेनेति / ६..ग. च. कुण्ड / 7. क. ख. छ. कर्माणि /