________________ T 370 पटले, 8-9 श्लो.] वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः तोयेन भावयेत्, रसास्वादनार्थं कृष्णायां लवणाम्बु' क्षेपयेत्, पीतायां गुडम्, रक्तायां त्रिकटुकम्, श्वेतायां तिक्तं कषायं चेति हरितायां सर्वकर्मकरत्वान्न किञ्चित् क्षेपणीयम् / तथा भूमिगर्भे निधापनीयम् / कृष्णायां मानुषास्थि मारणे, काकपिच्छान्युरच्चाटने, विद्वेषे खरास्थीनि, पीतायां कीलने मेषशृङ्गम्, स्तम्भने हरितालम्, मोहने सर्पम्, रक्तायां वश्ये गोरोचनम्, आकृष्टौ हिङ्गुलम्, स्तोभे मनःशिलाम्, श्वेतायां शान्तौ स्फटिकम्, पुष्टौ शङ्खम्, ज्वरापहरणे दाहे मुक्ता इति / हरितायां न किञ्चिदपि क्षेपणीयमिति / अथ हरितायां साधारणं सार्वमि के कार्यम्, तदा पञ्चरत्नानि भूमिगर्भे निधापयेत् / श्वेतरक्तायामपि सर्वकर्मणि क्रूरद्रव्याणि वर्जयेत् / सर्वकर्मशब्देन शान्तिकादिवश्यादिषट्कर्माणि, न मारणादिकीलनादि षडिति भूमिपरीक्षाक्रियानियमः // 8 // इदानीं शान्तिकाद्यर्थं दिग्विभाग उच्यते ऐशान्यां चोत्तरे वे भवति भुवितले शान्तिक पौष्टिकं च. आग्नेय्यां पूर्वभागे प्रकटितनियतं मारणोच्चाटनं च / नैऋत्यां दक्षिणे च स्फुटमपि सततं वश्यमाकर्षणं च वायव्यां पश्चिमे वै परमनरपते स्तम्भनं मोहनं च // 9 // 15 20 ___ ऐशान्यामित्यादिना / इह सामान्यग्रामे ग्रामबाह्ये ऐशान्यां शान्तिकं . .. पौष्टिकं ज्वरापहरणं वा कुर्यादुत्तरेऽपि वा। महाराजधान्यां पुनरष्टदिक्षु शवदहनादिश्मशानाष्टकम्, तेन शान्तिकं पौष्टिकं न सिध्यति / तेन राजगृहस्य ऐशान्यामुत्तरेण वा शान्तिकं पौष्टिकं कर्तव्यम् / शेषकर्माणि ग्रामवद् बाह्ये राजधान्यामिति शान्तिपुष्टिकर्मनियमः। तथाग्नेय्यां मारणम्, पूर्व विद्वेषोच्चाटनम्, नैर्ऋत्यां वश्यम्, दक्षिणे आकृष्टिः स्तोभनम्', वायव्यां मोहनम्, पश्चिमे स्तम्भनं कोलनं चेति। ग्राममध्ये सार्वर्मिक-मण्डलं . कुण्डं होमं च कुर्यान्मन्त्रीति दिग्भागे कर्मकरणनियमः // 9 // (167a) इदानीं शान्त्यादिकुण्डमुच्यते कुण्डं ग्रामाष्टदिक्षु प्रभवति नियतं वर्तुलं चाब्धिकोणं अर्द्धन्दुं पञ्चकोणं प्रकृतिगुणवशात् सप्तकोणं त्रिकोणम् / 25 1. भो. sKyur Ba ( अम्लं)। 2. क. ख. छ. च्छोच्चा० / 3. क. ख. सयं / 4. च. कर्मिक, छ. कणिके। 5. च. कर्माणि / 6. ग. 'कीलनादि' नास्ति / 7. छ. 'पौष्टिक', भो. 'ज्वरापहरणं' नास्ति / 8. क. ख. छ. वान्यां / 9. च. कं वा / 10. च. 'स्तम्भनम्', ग. 'शोभनम्' इत्यधिकः पाठः / /