________________ 10 विमलप्रभायां [ अभिषेकइदानीं भूमिलक्षणमुच्यते भूमेर्जातिश्चतुर्धा भवति गुणवशाच्छूद्रविड्राजविप्रा / कृष्णा पीता च रक्ता शशधरधवला वर्णतो वेदितव्या / पूतिक्षाराब्जगन्धा भवति वसुमती दिव्यगन्धा क्रमेण अम्ला क्षारा च शूद्री समधुरकटुके विड्नृपेऽन्यो द्विजातिः // 7 // भूमेरित्यादिना। [166a ] इह लोकव्यवहारेण वस्तूनां जातिश्चतुर्धा, सा 'चतुर्वर्णतो वेदितव्या शूद्रादिना कृष्णवर्णादिना' इति / अत्र लोकसंवृत्या कृष्णवर्णा भूमिः शूद्री, पीता वैश्या, रक्ता क्षत्रिणी, श्वेता ब्राह्मणो जातिः / तथा गन्धतः पूतिगन्धा शूद्री, क्षारगन्धा वैश्या, पद्मगन्धा क्षत्रिणी, दिव्यगन्धा ब्राह्मणी जातिः क्रमेण / तथा रसतः अम्लक्षारास्वादेन शूद्रो, समधुरकटुकेति मधुरास्वादेन विड्जातिः कटुकास्वादेन नृप इति क्षत्रिणी, अन्यो रसस्तिक्तः कषायो *द्विजातिरिति स्वादतो जातिनियमः // 7 // इदानीं शान्त्याद्यर्थं भूमिमाहश्वेता शान्तौ च पुष्टौ भवति घननिभा मारणोच्चाटने च रक्ताकृष्टौ च वश्य वरकनकनिभा स्तम्भने मोहने च / सर्वस्मिन् कमभागे भवति हि हरिता पञ्चमी चान्त्यजातिः सर्वस्वादा च गन्धा सकलगुणनिधिर्योगिना वेदितव्या // 8 // श्वेतेत्यादि / इह शान्तिके श्वेता भूमिः पुष्टौ च, कृष्णवर्णा मारणे उच्चाटने च, रक्ता आकृष्टौ वश्ये च, पीता स्तम्भने मोहने स्यादिति / चकारानिर्विर्षादिकेऽपि यथाक्रमेण नियमः। इह सर्वस्मिन् कर्मभागे हरिता भूमिः सर्वकर्मकरी भवति / पञ्चमी चान्त्यजातिः। सर्वस्वादा सर्वगन्धा सकलगुणनिधिः साकाशधातुलक्षणा योगिना वेदितव्येति भूमिलक्षणनियमः। इह यदीदृशो भूमि लक्षणनियमः शान्तिकाद्यर्थं तदा न सर्वत्र वनपुरादिदिग्विभागेष्वेभिर्लक्षणैर्युक्ता भूमिर्भवति, तेन मूलतन्त्रे भगवतोक्तम्-इह यत्र मण्डलादिकर्म कर्तव्यं तत्र यदि कर्मानुरूपतो भूमिर्न भवति, तदा 'खानि खनित्वा उदकान्तं शिलान्तं वा खनेत्, ततोऽपरमृत्तिकया खानि पूरयेत् कर्मानुरूपतः / अत्र 'भूगन्धार्थं श्वेतमृत्तिकां चन्दनोदकेन भावयेत्, रक्तमृत्तिकां पद्मोदकेन रक्तचन्द[166b] नोदकेन भावयेत्, पीतमृत्तिकां खराश्वमनुष्यमूत्रेण भावयेत् / कृष्णमृत्तिकां पूतिमांस 1. ग. च. सा च वर्णतो। 2. च. 'वेदितव्या' इत्यधिकम् / 3. छ. अमधुर / 4. ग. च, द्विजजाति / 5. च. 'लक्षण' नास्ति / 6. 7. च. खनि / 8. छ. सुगन्धी।