________________ 10 पटले, 5-6 श्लो.] वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः 'क्षरार्थं तेन ज्ञानसम्भारः, तस्माज्ज्ञान-सम्भारहेतोरुत्तराभिषेका देयाः, ते च' चतुर्थाभिषेकेण सहिताः। चतुर्थ उपदेशेन वक्तव्य इति भगवतोऽभिषेक नियमः। एवं चैत्रपूर्णिमा' मुखतः कृत्वा द्वादशपूर्णिमासु वज्राचार्येणाभिषेका देयाः, प्रतिमादीनां प्रतिष्ठा कर्तव्या, तथान्यस्मिन्नपि दिने शुभनक्षत्रयोगसहिते कर्तव्य इति सेकादिनियमः। इदानीं कालचक्र' देशनार्थं योगिनीपूजानियम उच्यते। चैत्रपूर्णिमायां मण्डलं वर्तयित्वा योगिनीनां खानपानादिना पूजा कर्तव्या, मण्डलालेखनाभावेऽपि वा सकलगुणनिघेस्तन्त्रराजस्य देशनार्थम् / अ[165 b]थाऽसामग्रीवशात् पूजाभावो भवति चैत्रपूर्णिमायाम्, तदाब्दमेकं देशनाभावस्तन्त्रराजे गुरोर्वज्राचार्यस्येति / अथ पूजाभावे जाते सति कश्चिद्योग्यः शिष्यः श्रुतार्थी, तदा स द्वादशपूर्णिमासु योगिनीपूजां कृत्वा शृणो तीति तस्य पुण्यसम्भारेणान्येऽपि शृण्वन्ति / इह योगिनीपूजा बाह्यविघ्नोपशमनार्थं सदाष्टम्यां चतुर्दश्यां यथाविभवतः कर्तव्या, भूतादीनां प्रत्यहं बलिर्दातव्यः, बुद्धपूजामण्डलादिकं कर्तव्यमिति गृहस्थानां धनिनां नियमः। अवधूतशिष्याणां पुनः पूजानियमो नास्ति, तेभ्यो देशनां प्रति गुरोरपि नियमो नास्ति / यस्मादाशयग्राहका बुद्धा वज्रयोगिन्यश्च न पूजादिवस्तुग्राहका इति तन्त्रदेशना पूजानियमः // 5 // इदानीं सेकार्थ भूम्यादिलक्षणमुच्यते सेकार्थ भूपरीक्षां वनपुरनिगमे ग्रामके दिग्विभागं ज्ञात्वाचायः समस्तं त्वशुभशुभफले शान्तिकाद्यं प्रकुर्यात् / कुण्डानां लक्षणं वै सकलश(स)रजसा होमकीलादिकानां शिष्याणां संग्रहं यत्परमजिनपतेमण्डलालेखनं च // 6 // इह वृत्ते यद् भूम्यादिकं गृहीतम्, वक्ष्यमाणे वक्तव्यम्, तत् समस्तं शुभाशुभकर्मफलार्थ शान्तिकाचं कुर्यादिति वज्राचार्य शिष्याणां संग्रहं यत् मण्डलालेखनं च ज्ञात्वा कुर्यादिति नियमः। परिज्ञानाभावात् कुर्वतो दुष्टाचार्यस्य नरकममनं भवति, द्रव्यलोभेन परवञ्चकस्येत्याचार्यानुशासनं बृत्तम् / सेकार्थ भूपरीक्षामित्यादि "मुबोधम् // 6 // 20 25 . 1. छ. क्षयार्थ / 2. ख. च. छ. 'च' नास्ति / 3. क. छ. 'ऽभिषेक' नास्ति / ४छ. मायां / 5. भो. Das Kyi hKhor Lo rGyud ( कालचक्रतन्त्र ) / 6. च. शृणोति / 7. च. दीनां च / 8. छ. आत्मना। 9. भो. Gan SMos Pa ( यदुक्तं)। 10. ग. धमिति, च. धमेव /