________________ विमलप्रभायां [अभिषेकइदानीं वज्राचार्यस्य मण्डलवर्तनायाभिषेकदानाय तन्त्रदेशनाथं योगिनीनां पूजाकरणाय शुक्ल पर्वनियमो भगवतोक्तो वितन्यते चैत्रात इत्यादिना चैत्रान्ते श्वेतपर्वे परहितगुरुणा मण्डलं वर्तयित्वा देयाः सप्ताभिषेकाः कलुषमलहराः पुण्यहेतोः सुतानाम् / पूजा वै योगिनीनां सकलगुणनिधेर्देशनाया निमित्तं पूजाभावेऽब्दमेकं नहि भवति गुरोर्देशना तन्त्रराजे // 5 // इहार्य[ 165a ]विषये शाक्यमुनिर्भगवान् वैशाखपूर्णिमायामरुणोदयेऽभिसंबुद्धः / शुक्लप्रतिपदादिपञ्चदशकलावसाने कृष्णप्रतिपद(त्)प्रवेशे ततो धर्मचक्र प्रवर्तयित्वा यानत्रयदेशनां कृत्वा द्वादशमे मासे चैत्रपणिमायां श्रीधान्यकटके धर्मधातवागीश्वरमण्डलं षोडशकलाविभागलक्षणं तदुपरि श्रीमा(म)न्नक्षत्रमण्डलं षड्विभागिकमादिबुद्धं "मण्डलैविस्फारितमि(तवानि)ति। कथं नक्षत्रमण्डल मिति ज्ञायते? उच्यते-इह चैत्यबाह्ये येना'ष्टाविंशन्नक्षत्रविशुद्धया अष्टाविंशत्स्तम्भाश्चतुर्ष दिशासु सप्तशलाकाभेदेना'वरोपिताः-पूर्वे विष्णुनाऽनीताः, दक्षिणे कार्तिकेयेन, पश्चिमे ब्रह्मणा, उत्तरे शङ्करेणानीता"इति / तेन चैत्यबाह्ये नक्षत्रविभक्तेन चैत्यगर्भमण्डलं श्रीमा(म)न्नक्षत्रमण्डलमिति / एवं चतुर्विंशतिकक्षपक्षकलाभेदेनापरं पातालमण्डलं षोडश- . विभागिकं कायवाञ्चित्तमण्डलात्मकं षोडशशून्यताकरुणाविशुद्धया / इति मण्डलस्थाननियमः। तत्र स्थाने तस्मिन्नेव दिने बुद्धाभिषेकं दत्त्वा देवासुरादयो बुद्धत्वे व्याकृतास्तथागतेनानागतेऽध्वनि / तेनास्यां पूर्णिमायां तथागतनियमः. कालचक्रे वज्राचार्याणां बभूवेति। चैत्रान्ते श्वेतपर्वे परहितगुरुणा मण्डलं वर्तयित्वा देयाः सप्ताभिषेकाः कलुषमलहराः पुण्यहेतोः सुताना मिति / इह प्रथम सप्ताभिषेकदानप्रवृत्त्यर्थं मन्त्रजापमण्डल भावनार्थम्, तेन पुण्यसंभारः, तस्मात् पुण्यसम्भारहेतोः सप्ताभिषेका देया इति", अहिंसादिपञ्चविंशवतानि देयानि५ ततो ज्ञानसम्भारार्थमुत्तराभिषेकत्रयं देयम् / स्वमांसा"दीष्टतरदाना"द्यर्थं सर्वाकारवरोपेतशून्यताभावनार्थं बोधिचित्ता १.ग. वर्तमानाय / 2. ग. शुक्र / 3. ग. द्वादशे / 4. भो. Cha bCu Drug Gi rNam Par Dbye Ba (षोडशकलावि०)। 5. क. ख. ग. च. 'मण्डल:' नास्ति / 6. ग. च. मण्डलमिदं / 7. 8. क. च. अष्टविंशत् / 9. क. वरोपेताः, ग. च. नारोपिता / 10.11. क. छ. अतीताः। 12. क. सुगतानाम् / 13. क. ख च. छ. * मण्डलचक्रस्य / 14. च. 'इति' नास्ति। 15. ग. व्रतादिनेयानि / 16. ख. दि / 17. च. नार्थ /