________________ पटले, 24 श्लो.] वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः 5 सत्यपि भिक्षुवज्रधरे। तस्मात् सर्वप्रकारेण परीक्षयित्वा गुरुः सेवनीयो दोषरहितः, दोषयुक्तो वर्जनीय इत्याचार्यपरीक्षा'प्रकथननियमः // 3 // इदानीं प्रज्ञा ज्ञानाभिषेकार्थं सच्छिष्यलक्षणमुच्यते गम्भीर इत्यादिना गम्भीरोदारचित्तो गुरुनियमरतस्त्यागशीलो गुणज्ञो मोक्षार्थी तन्त्रभक्तोऽप्यचपल हृदयो लब्ध तत्त्वेऽतिगुप्तः / दुष्टानां सङ्गनष्टः सुनिपुणगुरुणा ग्राह्यशिष्यः स एव प्रज्ञासेकादिहेतोरपर इति पुनर्मध्यमः पुण्यहेतोः // 4 // इह मन्त्रनये शिष्यो द्विधा-एको महामुद्रासिद्धिसाधनार्थी, द्वितीयो लौकिकसिद्धिसाधनार्थी / यो महाम[164b7द्रासिद्धिसाधनार्थी, स शन्यतामार्गभावनार्थं सेकेन संग्राह्यः 'कलशगुह्यादिकेन / योऽसौ लौकिकसिद्धिसाधनार्थी, स मन्त्रमुद्रामण्डल- चक्रभावनाथं सप्ताभिषेकेण संग्राह्यो मध्यमः पुण्यतोरिति / अधमोऽभिषेकेण संग्राह्यो न भवति, स° उपासक" शिक्षया संग्राह्य इति नियमः। इह गम्भीरोदारधर्मे शून्यताकरुणात्मके चित्तं यस्य स गम्भीरोदारचित्त इति शिष्योत्तमः / गुरुनियमरतश्चतुर्दशमूलापत्तिरहितः, दशकुशलधर्मरत इति / त्यागशील इति सर्वसङ्गविवर्जितो द्रव्यादिनिरपेक्षक इति / गुणज्ञ इति रत्नत्रये श्राद्धः / मोक्षार्थोति लौकिकसिद्धिनिर- पेक्षक' इति / तन्त्रभक्त इति तन्त्रोक्तसंवरपरिपालक इति / अचपलहृदय इति / लौकिकमार्गहृदयं न चाल्यते "यस्यासावचपलहृदय इति / लब्धतत्त्वेऽतिगुप्त इति लब्धे तत्त्वे यावत् स्वतोऽनुभवो न भवति, तावद् गुप्तोऽतिगुप्त इति / दुष्टानां सङ्गनष्ट इति / इह धनार्थिनो ये गृहस्थाचार्याः, तथा तपस्विनोऽप्येकपुद्गलेन मठविहारोपभोगिनस्ते दृष्टाः, तेषां सङ्गो दशाकुशलपथः, स नष्टो यस्यासौ दृष्टानां सड़नष्ट इति / / इत्थंभूतो महाशिष्यः सुनिपुणगुरुणा तत्त्वविदा प्रज्ञाज्ञान सेकादिहेतोः संग्राह्यः। आदिशब्दाच्चतुर्थाभिषेकहेतोः स एव। अपरो मध्यमः पुनः पुण्यहेतोः संग्राह्यो मध्यमगुणैर्युक्तः सप्ताभिषेकहेतोः। अधमः पुनः पञ्चशिक्षापदहेतोः संग्राह्यो यदि गुराधनं करोति, न विहेठयतीति भगवतो" नियमः / इति शिष्यपरीक्षानियमः // 4 // 10 15 T369 1. ग. 'प्र' नास्ति / 2. भो. ज्ञानाद्यभि / 3. मु. चलित / 4. मु. तत्त्वो / 5. ग. सेवकेन / 6. क. ख. ग. छ. सकलगुह्य / 7. ग. 'असौ' नास्ति / 8. ग. मध्यमपुण्य / 9. च. षेके / 10. भो. 'स' नास्ति / 11. ग. उपासशिक्षायां / 12. च. पेक्ष / 13. क. तत्र। 14. च. स्य सोऽच / 15. क. ख. छ. अनुभावो / 16. भो. 'न' नास्ति / 17. ग. तत्त्वविज्ञासेकादिहेतोः, क. ख. च. छ. प्रज्ञासेका। 18. च. 'पुनः' नास्ति / 19. च. वतः शिष्यपरीक्षा।