________________ विमलप्रभायां [अभिषेक इह त्रिकालं भिक्षुभिः काषायधारिभिर्वजाचार्यो वन्द्यते, न गृही, न' नवकः ' सद्धर्म व्याख्यानेन विना / तद्यथा सद्धर्मादीन् पुरस्कृत्य गृही वा नवकोऽपि वा। वन्द्यो व्रतधरै बुद्धया लोकावध्यान हानये / / (गु० प०४) तथा "आसनदानसमुत्थानमर्थक्रियादिगौरवम् / सर्वमेतद् व्रती कुर्यात् त्यक्त्वाऽसत्कर्मवन्दनाम् // इति / - (गु०प०५) इह यदि गृही नवकोऽपि वा भिक्षुर्वज्राचार्येण तुल्यो भ[164a]वति, तदा किमसत्कर्मपादप्रक्षालनादिकं पञ्चाङ्गवन्दनां त्यक्त्वा स्वस्थाने गुरोरागतस्यार्थादिगौरवं कर्तव्यम् / व्याख्यानकाले सद्धर्मादीन् पुरस्कृत्य वन्दना कर्तव्या लोकावध्यानहानये। इह लोकावध्यानं यद् गृहस्थचेल्लकानां तत्कौशीद्यत्वेनोत्तरलिङ्गाग्रहणात् प्रातिमोक्षाश्रुतपरिज्ञानेन। यदि कौशीद्याभिमानो नास्ति, तदा किमर्थं प्राग् भिक्षुसंवरं ज्ञात्वा पश्चाद् महायानं ज्ञातव्यमिति हेवज्रादिके भगवतो वाक्यं न कुर्वन्ति ? तस्माद् गृहस्थाचार्या भिक्षुभिर्नाराधनीया भिक्षौ वज्रधरे सति, राज्ञा पुनः सर्वप्रकारेण नारा: धनीया इति / तथा आचार्यपरीक्षायाम् भिक्षया रक्तवस्त्रेण लज्जा यस्य दुरात्मनः। वन्द्यः पूज्यः स रण्डानां बौद्धानां नष्टमार्गिणाम् / / इति भवति सम्बन्धः / तथा रक्ताम्बरं यदा दृष्ट्वा द्वेषं गच्छन्ति पापिनः / म्लेच्छधर्मरता बौद्धास्तथा" श्वेताम्बरप्रियाः // इति / इह बौद्धदर्शनं२ सर्वदा न शुक्लपटम् / तथाहि मञ्जुश्रीविषये विहारे यदा भिक्षुश्चेल्लको वा पाराजिकमापद्यते, तदा शुक्लवस्त्रं दत्त्वा काषायं गृहीत्वा विहारानिष्काश्यते / वज्राचार्योऽपि मन्त्रिविहारादं राज्ञो नियमेन / इह पुनरार्य"विषये कथं काषायधारिणां श्वेताम्बरधरो गृहस्थो गुरुविहारादिप्रतिष्ठाकर्ता ? महानयं परिभवः संघे, महती खल्वियं विवेकविकलता सौगतानाम्, यदमी अपराधदशापन्नानाराधयन्ति, 1. ग. 'न' नास्ति / 2. ग. सधर्म / 3. क. व्रतधनैः। ४.गु. द्याव / 5. गु. सुखासनम् / 6. गु. मेव / 7. गु. चार्चनवन्दनम् / 8. छ. वन्दनाद् / 9. क. च. 'भवति' नास्ति। 10. क. ख. छ. 'तथा' नास्ति / 11. भो. De Tshe (तदा)। 12. भो. bsTan Pa (शासनं ) / 13. क. ख. छ. तथा / 14. क. ख. छ निर्धार्यते / 15. भो. hPhags Pahi Yul ( आर्यदेशे ) /