________________ पटले, 3 श्लो.] वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः तथा विहारादेः प्रतिष्ठाद्यं कर्तव्यं लिङ्गिना सदा / सत्सु त्रिष्वेकदेशे च न गृहिणा श्वेतवासिना // इति / एवमनेकप्रकारेणाचार्यपरोक्षायां भगवतोक्तो गुरुः शिष्यै[163b]राराधनीय इति पूर्वोक्तनियमो दोषयुक्तस्य वर्जनाय / तथा गुणा अप्युक्ताः / तद्यथा धीरो विनीतो मतिमान् क्षमावानार्जवोऽशठः / मन्त्रतन्त्रप्रयोगज्ञः कृपालुः शास्त्रकोविदः // दशतत्त्वपरिज्ञाता मण्डलालेख्यकर्मवित् / T368 मन्त्रव्याख्याकृदाचार्यः प्रसन्नात्मा जितेन्द्रियः // (१०प० 8-9) इत्यादिना। किञ्च, किं नापरगाथयोक्तवचनं विचार्यते / “अभिषेकापलब्धो ___10 हि" ( गु०प० 2 ) इत्यादिवचनं परमार्थसत्येन लौकिकसत्येन नीतार्थेन नेयार्थेनावगन्तव्यः (व्यं) पण्डितैरिति। . तत्र नीतार्थस्तावदुच्यते-इह कलश-गुह्य-प्रज्ञाज्ञानाभिषेकाणामग्रतो महामुद्राप्रज्ञापारमिता-महाक्षरसुखक्षणानामन्तिमोऽभिसंबोधिलक्षणोऽच्छेद्यः', स येन भगवता 'बोधिवृक्षमूले लब्धोऽसौ अभिषेकाग्रलब्धः, हि यस्मात्तस्मात् कायवाञ्चित्ताभेद्यत्वा- 15 ' ' द्वज्राचार्यः शाक्यमुनिस्तथागत इति / इह त्रैधातुके सत्त्वार्थं प्रति यस्य कायवाक् चित्तमभेद्यं वज्रवदाचरति, स वज्राचार्यः सर्वगः सर्वज्ञ एव / स च तथागतैः 'दशदिग्लोकधातुस्थैः' (गु० प० 2 ) इति, इह दशसु दिक्षु ये बोधिसत्त्वास्तेषां मुकुटाः सप्तरत्नमया नीतार्थेन लोकधातव उच्यन्ते / तेषु मुकुटेषु ये तथागताः कुलमुद्रास्वरूपेणावस्थितास्ते दशदिग्लोकधातुस्थाः, ते च बोधिसत्त्वास्त्रैकाल्यमागत्य बुद्धभगवतो वन्दनां कुर्वन्ति / तैर्वन्दनां कुर्वद्भिर्मोलिस्थितैस्तथागतैः पञ्चस्कन्धैरपि वन्द्यते तथागत इति भगवतो नीतार्थः। तथोपचारेण नेयार्थ उच्यते-इह “यथा बाह्य तथा देहे विश्वम्” इति वचनाद् लोकधातुशब्देन दशसु दिक्षु स्थितानां शिष्याणां शरीराण्युच्यन्ते। अधो भूमिगृहे . स्थितानि, ऊर्ध्वं त्रिपुर प्रासादादौ स्थितानि / तेषु पञ्चस्कन्धास्तथागता इत्युच्यन्ते। 25 एवं लोकधातुस्थाः, ते च शिष्यात्रिसन्ध्यमागत्य गुरोर्वन्दनां कुर्वन्ति / तैर्वन्दनां कुर्वद्भिः पञ्चस्कन्धैरपि वन्द्यते गुरुरिति नेयार्थः। .. 1. ग. वर्जनीयः / 2. ग. 'तथा गुणा अप्युक्ता' इत्यंशो नास्ति / 3. क. ख. छ. कर्मणि / 4. क. ख. छ. अत्र, भो. De La Re Sig (तत्र केचित्) / 5. ग. सुच्छेद्यः, छ. अच्छेदः। 6. क. ख. ग. छ. बोधिमूले / 7. भो. Phun Po rNam ‘पञ्च' नास्ति / 8. भो. Sum rTseg (त्रिपुट)।