________________ विमलप्रभायां - [अभिषेकपानेन, वर्जनीयोऽसमाहित इत्यर्थः। कामुकश्चेन्द्रियार्थमिति द्वीन्द्रियसुखार्थं कामुकश्च वर्जनीय इति तथागतनियमः। ननु मन्त्रनये 'तथागतेनोक्तम् / तद्यथा आचार्यस्य गुणा ग्राह्या दोषा नैव कदाचन / गुणग्रहणाद्भवेत् सिद्धिर्न सिद्धि दर्दोषवाक्यतः // इति / तथा ___10 अभिषेकापलब्धो हि वज्राचार्यस्तथागतैः। दशदिग्लोकधातुस्थैस्त्रकाल्यमेत्य' वन्द्यते / / (गु० प० 2) इति / तस्मादाचार्यस्य गुणा ग्राह्याः, इहानागतेऽध्वनि यद् वक्तव्यं बालजनैः सन्मार्गनष्टैराचार्यस्य गुणा ग्राह्या इति केषाञ्चिद् मार्गनष्टानां वचनं भविष्यति, तस्मादुच्यते दोषा नैव कदाचनेति / तन्न, कुतः ? यतो गुर्वाराधनायाचार्यस्य दोषगुणपरीक्षा तथागतेनोक्ता / तद्यथा निष्कृपं क्रोधनं क्रूरं स्तब्धं लुब्धमसंयतम् / "स्वोत्कर्षणं च नो कुर्याद् गुरु शिष्यः सुबुद्धिमान् // (गु० 50 7) इति / ___ अतो वचनात् कृतोऽपि गुरुरकार्यकारी शिष्येण मोक्षार्थिना वर्जनीय एव / तथा आविबुद्धे यो गृही मठिकाभोक्ता सेवको लाङ्गली वणिक् / 'सद्धर्मविक्रयी मूर्यो न स वज्रधरो भुवि // इत्यादिना। त्रिविधो गुरुराचार्यपरीक्षायामुक्त: दशतत्त्वपरिज्ञानात् त्रयाणां भिक्षुरुत्तमः। . मध्यमः श्रामणेराख्यो गृहस्थस्त्वधमस्तयोः / / इति / 15 तथा न कर्तव्यो गुरू राज्ञा भूमिलाभं विना गृही। तत्र श्रुतपरिज्ञानैलिङ्गी कर्तव्य एव यः॥ भूमिलाभं विनाऽऽचार्यो गृहस्थः पूज्यते यदा। तदा बुद्धश्च धर्मश्च संघो गच्छत्यगौरवम् // . 1. भो. De bSings-gs Pas gSuh Pa Ma Yin Nam (किं तथागतेन नोक्तम् ?) / 2. ग. न सिद्धिरित्यंशो नास्ति / 3. क. 'एव' इत्यधिकः पाठः / 4. क. सो, गु. 'स्वोत्कर्षकं च नो कुर्याद् गुरु शिष्यं च बुद्धिमान्' इति पाठः / 5. ग. शेवलोकाङ्गली। 6. ग. स धर्म /